________________
(६८९) तोयोत्सर्गद्रुततरगतिस्तत्परं वम तीर्णः ॥ रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णा । भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९॥ तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिः । जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ॥ अन्तःसारं घन तुलयितुं' नाऽनिलः शक्ष्यति त्वां । रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥२०॥ नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूद्वैः । आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ।। दग्धारण्येष्वधिकसुरभि गन्धमाघ्राय चोयाः । सारङ्गास्ते जलवमुचः सूचयिष्यन्ति मार्गम् ॥ २१ ॥ उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थे थियासोः । कालक्षेपं ककुभ. सुरभी पर्वते पर्वते ते ॥ शुक्लापाडैः सजलनयनैः स्वागतीकृत्य केकाः। प्रत्युातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २२ ॥ पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः । नीडारम्भैहबलिभुजामाकुलग्रामचैत्याः॥ त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः ॥ सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २३ ॥ तेषां दिक्षु प्रथितविदिशालक्षणां राजधानी । गत्वा सद्यः फलमपि महत्कामुकत्वस्य धा ।। तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यंत्र । सभ्रूभङ्ग मुखमिव पयो वेत्रवत्या
लोमि ॥ २४ ॥ नीचैराख्यं गिरिमधिवसेस्तत्र विश्रान्तिहेतोः । त्वत: म्पर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः ॥ यः पण्यस्त्रीरतिपरिमलोद्गारिभि गराणा-। मुद्दामानि प्रथयति शिलावेश्मभिविनानि ॥ २५ ॥ विश्रान्तः सन्त्रज वैननदीतीरजानां निषिञ्च- न्नुद्यानानां नवजलकणैऍथिकाजालकानि ॥ गण्डस्वेदापनयनरुजालान्तकर्णोत्पलानां । छायादानाक्षणपरिचितः पुष्पलावीमुखानाम् ॥ २६ ॥ वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशा । सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुजयिन्याः ॥ विद्युद्दाम फुरितचकितैयंत्र पौराङ्गनानां । लोलापाङ्गैयदि न रमसे लोचनैर्वञ्चितः स्वाः ॥ २७ ॥ वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः । संसर्पन्त्याः स्खलित
१ तोयोत्सर्गाद्रुत; ० सर्गालधुत० । २ जम्बूखण्डप्र० । ३ जग्ध्वार०। ४ नव. जलमु० । ५ सनयनजलैः । ६ प्रत्युद्धातः । ७-८ फलमविकलं का, फलमतिमहत् का०। ९ लब्ध्वा । १०-११ स्वादुयुक्तम् । १२ ०श्चलोयाः। १३ विश्रामहेतोः । १४-१५ नवनदी, नगनदी; तीरजातानि सिञ्चन् । १६ पन्थास्तव भवतु च प्रस्थित। १७ स्फुरण५०। १८ तत्र । १९ तोऽसि । २० भक्कणितवि० ।
पावाभ्युदये ४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org