________________
अथ चतुर्थः सर्गः ।
सन्दिष्टं च प्रणयमधुरं कान्तया मे द्वितीयैः प्राणैः प्राणा नवनववरः सन्निति त्वां प्रतीदम् । तत्कर्तुत्वं त्वरय लघु नः किं किमेवं न कुर्या वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः ॥ १ ॥
अन्वयः --
नव
1 मे द्वितीयैः प्राणैः कान्तया ' [ त्वं अस्याः ] प्राणाः, नववः, सन् ' इति त्वां प्रति इदं प्रणथमधुरं सन्दिष्टं । तत् कर्तुं त्वं त्वरय । मदीयैः कररुहपदैः मुच्यमानः वामः [ त्वं ] नः अस्याः किं किं एवं लघु न कुर्या: १ |
"
"
सन्दिष्टमित्यादि । मे मम द्वितीयैः द्वयोः पूरणैः । ' द्वेस्तीयः इति स्यिपूरणेऽर्थे द्विशब्दात्तीयः । प्राणैः असुभिः । नियंतलिङ्गवचनत्वात्पुल्लिङ्ग बहुवचनत्यान्तत्वेऽपि प्राणैरितिपदस्य कान्तयेतिस्त्रीलिङ्गैकवचनत्यान्त विशेष्यपदविशेषणत्वमदोषार्हम् । मद्वितीयप्राणभूतया मम कान्तयेत्यर्थः । त्वमस्याः वसुन्धराचर्याः किन्नर कन्यकायाः प्राणाः प्राणभूतः । अत्राऽपि विभिन्नलिङ्गवचनयोः विशेष्यविशेषणभावः पूर्ववदेव | नवनववरः अभिनवप्रियः । नवनवं नवप्रकारं वरं अभीष्टं यस्य सः । ' प्रकारे गुणोक्तेर्वा ' इति प्रकारेऽर्थे गुणोक्तेद्वैधीभावः यवच्च कार्यम् | देवाद्वते वरः श्रेष्ठे त्रिषु क्लीवं मनाक् प्रिये ' इत्यमरः । यद्वा नवनवं नवप्रकारं वृणोतीति शीलं यस्य सः नवनववरः । ' हेतु शीलानुलोम्येऽशब्दश्लोक कलहगाथावैरचाटुसूत्रमन्त्रपदे ' इति कर्मणि वाचि शीलेऽर्थेऽट् । सन् साधुः प्रशस्तः वा । ' सत्ये साधौ विद्यमाने प्रशस्तऽभ्यर्हिते च सत्' इत्यमरः । ' सत्साधौ विद्यमानेऽपि प्रशस्ते पूजिते त्रिषु ' इति विश्वलोचने । इति इति हेतोः । इति हेतौ प्रकारे च प्रकाशाद्यनुकर्षयोः । इति प्रकरणेऽपि स्यात्समाप्तौ च निदर्शने ' इति विश्वलोचने । त्वां प्रति भवन्तमुद्दिश्य । ' मात्रार्थे चाभिमुख्ये च प्रकाशे च स्मृतं प्रति' इति विश्वलोचने । प्रतिशब्दस्य कर्मप्रवचनीयत्वाच्चामितीविभक्तिः । इदं एतत् प्रणयमधुरं प्रणयेन प्रेम्णा मधुरं सुभगं यथा स्यात्तथा । प्रीतिसुभगमित्यर्थः । सन्दिष्टं भाषितम् । सन्दिश्यते स्मेति सन्दिष्टं । तत् सन्देशद्वारेण कथितं कर्तव्यं कर्तुं विधातुं त्वं भवान् त्वस्य त्वरां करोतु | मृदो ध्वर्थे णिज्बहुलं ' इति
८
"
पार्श्वाभ्युदये... २२
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org