SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ २७२ [ पार्श्वभ्युदये शारदी मेघमाला साक्षात् पश्यता एव आलेख्यानां स्वजलकणिकादोषं उत्पाद्य अलं भीत्वा इव सद्यः विलयं व्रजति । ___अध्यासीनेत्यादि । यत्र धनदनगर्यामलकायां भवनवलाभं गृहाच्छादनोपरिष्ठभागं । 'वलभी छदिराधारो' इति हेमचन्द्रः । अध्यासीना अधिष्ठिता। 'कमैवाधेः शीथासः' इत्यधिपूर्वस्य शीङः आधारस्य कर्मसंज्ञा। 'कर्मणीप्' इति इप। आमुक्तप्रतनुविसरच्छीकरासारधारा । प्रतनवः स्वल्पपरिमाणाश्च ते विसरन्तश्च प्रतनुविसरन्तः । ते च ते शीकराः वातेरिताः अम्बुकणाः। तेषां आसारः सन्ततं पतनं । तस्य धाराः। आमुक्ताः प्रतनुविसरच्छीकरासारधाराः यया सा। 'शीकरोऽम्बकणाः सृताः' इत्यमरः। 'वातास्तं वारि शीकरः' इति कात्यः । ' धारासम्पात आसारः' इत्यमरः । शारदी शरत्कालसम्भवा । मेघमाला मेघपङ्क्तिः । साक्षात् प्रत्यक्षं पश्यतां एव अवलोकयतां एव । साक्षात् पश्यतो जनाननादृत्येत्यर्थः । 'ता चाऽनादरे' इत्यनादरे ता। आलेख्यानां तद्भवनभित्तिलिखितसच्चित्राणां। 'चित्रं लिखितरूपाढ्यं स्यादालेख्यं तु यत्नतः' इति शब्दार्णवे । स्वजलकणिकादोषं स्वसलिलबिन्दुकृतवर्णमिश्रणादिदोषं उत्पाद्य विनिर्माय अलं अत्यर्थ भीत्वा इव भयमाश्रित्येव सद्यः शीघ्रं विलयं विनाशं ब्रजति प्राप्नोति । इति श्रीपार्वाभ्युदये मुक्तेन्दुवर्मविरचितायां बालप्रबोधिन्या. ख्यायां व्याख्यायो शठकमठकृतभगवदुपसर्गवर्णनं नाम द्वितीयः सर्गः । Where the assemblage of autumnal clouds, resorting to the uppermost parts of the mansions, discharging thin lines of spreading sprays in large quantities, being as if frightened on account of their causing damage to the paintings with drops of water in the very presence of the people looking at it, immediately disappears. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy