SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] २०९ आकीर्णान्तं व्याप्तपर्यन्तप्रदेशं । आकीर्णः व्याप्तः अन्तः पर्यन्तदेशः यस्य सः । तम् । 'अन्तो नाशे मनोहरे ! स्वरूपेऽन्तं मतं क्लीबं न स्त्री प्रान्तेऽन्तिके त्रिषु' इति विश्वलोचने । सरसगहनं च अनाश्यानकाननं । सरसं मनोज्ञं अपरित्यक्तार्दीभावं वा गहनं काननं यस्य सः । तम् । 'गहनं काननं वनं ' इत्यमरः । एनं एतं शैलराज पर्वतश्रेष्ठ । 'राजाहःसखेष्टः ' इति टः सान्तः। उल्काक्षपितचमरीबालभारः । उल्काः ज्वालाः ' उल्का ज्वाला' इति क्षीरस्वामी । ताभिः क्षपिताः क्षयं प्रापिताः चमर्यः मृगविशेषाः । तासां बालभाराः कचसमूहाः चमरीबालभाराः । उल्काभिः क्षपिताः चमरीबालभाराः येन सः । दवाग्निः वनपावकः । 'दवो दावश्च पुंस्येव वनेऽपि वनपावके' इति विश्वलोचने । दवः एव अग्निः दवामिः । त्वत्सान्निध्यात् तव सामीप्यात् । न बाधेत न पीडयेत् । The sylvan fire, destroying by its flames the large bushy tails of the Camaris, would not, owing to your being in its proximity, damage this, the lord of mountains, possessing beautiful forests, with its borders scattered over with thousands of juicy plants, having its body as if armoured on accouat of its being covered over with the masses of snow from its foot to the uppermost part of its peaks. त्वत्तो निर्यन्स यदि सहसा विद्युतो जातवेदाः प्रालेयादि सतुहिनवनं निर्दिधक्षेत्तदा स्वैः । अर्हस्येनं शमयितुमलं वारिधारासहस्र रापन्नार्तिप्रशमनफलाः सम्पदो हुत्तमानाम् ॥ ६२ ।। अन्वयः- त्वत्तः सहसा निर्यन् विद्युतः जातवेदाः यदि सतुहिनवनं प्रालेयाद्रिं निर्दिधक्षेत् तदा स्वैः वारिधारासहस्तैः एनं अलं शमयितुं अर्हसि, हि (वतः ) उत्तमानां सम्पदः आपन्नार्तिप्रशनफलाः। त्वत्तः इत्यादि। त्वत्तः भवतः सकाशात् सहसा शीघ्र निर्यन् निर्गच्छन् । प्रादुर्भवन्नित्यर्थः । विद्युतः सौदामन्याः जातवेदाः धनञ्जयः। 'अनिर्वैश्वानरो वहिर्वीतहोत्रो धनञ्जयः । कृपीटयोनिज्वलनो जातवेदास्तनूनपात्' इत्यमरः । वैद्युतोऽमिरित्यर्थः। यदि सतुहिनवनं सहिमवनं । तुहिनेन सह सतुहिनं । सतुहिनानि वनानि यस्य सः सतुहिनवनः । तम् । 'अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमं । प्रालेयं मिहिका च' इत्यमरः । प्रालेयादि हिमाद्रिं । निर्दिधक्षेत् निःशेषेण दग्धुमिच्छेत् । पार्श्वभ्युदये....१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy