SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] २०१ 'किल्लल्कः केसरोऽस्त्रियाम्' इत्यमरः । प्राप्तामोदं लब्धसौगन्ध्यं । प्राप्तः लब्धः आमोदः सौगन्ध्यं येन तत् । ' सुगन्धिमुदि वामोदः ' इति विश्वलोचने । नीरं सलिलं शरं वनं कुशं नीरं तोयं जीवनमब्विषम्' इति धनञ्जयः । अधः अधस्तात् प्राप्तमात्रः प्राप्तः एव सन् । यस्मिन्क्षणेऽधस्तात्प्राप्तः स्याः तस्मिन्नेव क्षणे इत्यर्थः । व्योम्नि आकाशप्रदेशे पश्चार्धलम्बी लम्बमानपश्चार्धभागः । पश्चादर्ध पश्चार्ध । पृषोदरादित्वात्साधुः । पश्चार्धेन लम्बते इति पश्चार्धलम्बी | व्योमप्रदेशस्थितपश्चार्धभागः जलोन्मुखपूर्वकाय भागश्चेत्यर्थः । सुरगजः इव देवदन्तिवत् पातुं पानार्थ अध्यवस्येः निश्चिनुयाः । मनसि कुर्वित्यर्थः ! To mitigate exhaustion caused by your journey, you, hanging on, like a heavently elephant, by your hinder part in the sky, should make up your mind the very moment you would be reaching below to drink her water which is sweet, pure, transparent, oozing out of the snowy rocks, charming (and) made fragrant by the smell of the pollens of flowers falling down in the forests grown on her banks. तीव्रोदन्याश्रमपरिगतो न त्वकं चेत्तदानीं तूष्णीं स्थित्वा क्षणमिव गताध्वश्रमो जातवर्षः । मध्येगङ्गं हृदमधिवसेर्भूरि तस्याः प्रपातुं त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्मः ॥ ५५ ॥ अन्वयः— त्वकं तीव्रोदन्याश्रमपगितः न चेत्, क्षणं इव तूष्णीं स्थित्वा गताध्वश्रमः जातवर्षः त्वं तस्याः अच्छस्फटिकविशदं भूरि अम्भः तिर्यक् प्रपातुं तर्कयेः चेत्, तदानीं मध्येगङ्गं हृदं अधिवसेः । तीव्रेत्यादि । त्वकं त्वं । ' युष्मदस्मदोः सुपोऽधोसि' इति टेः प्रागक् । तीव्रोद्न्याश्रमपरिगतः तीक्ष्णपिपासाजनितदुःखवेदनापरिगतः । तीव्रा तीक्ष्णा चासौ उदन्या पिपासा च तीब्रोदन्या । उदन्या उदकेच्छा । 'क्षुत्तृङ्गर्द्धेऽशनायोदन्यधनायं ' इति क्यजन्तो निपातः । ' उदन्या तु पिपासा तृट् तृषा ' इत्यमरः । तस्याः श्रमः तृडुत्पन्न दुःखसंवेदनं । तेन परिगतः आक्रान्तः । न चेत् यदि न स्याः । क्षणं इव क्षणमात्रं तूष्णीं जोषम् । वाचंयमत्वेन मौनित्वेन वेत्यर्थः । स्थित्वा आस्थाय । गताध्वश्रमः विनष्टमार्गखेदः । जातवर्षः जनितवृष्टिः । जातः वर्षः वृष्टिः यस्मात् सः । यद्वा जातः इत्यस्यास्यान्तर्भावितण्यर्थत्वेन ग्रहणे जनितः इत्यर्थः । जातः जनितः वर्षः बृष्टिः येन सः । त्वं भवान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy