________________
१७८
[ पार्श्वाभ्युदये
गत्वा तस्मादविरलगलन्निर्झरान्तर्मलां तां प्राप्याsकीर्ति जनवदनजां क्षालयन्पुण्यतोयैः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ३६ ॥
अन्वयः
-
- तस्मात् गत्वा अविरलगलन्निर्झरान्तर्मलां, सुरभितनयालम्भजां जनवदनजां भुवि स्रोतोमूर्त्या परिणतां रन्तिदेवस्य अकीर्ति तो प्राप्य पुण्यतोयैः क्षालयन् ( तां) कीर्ति मानयिष्यन् व्यालम्बेथाः ।
1
,
गत्वेत्यादि । तस्मात् देवगिरेः । गत्वा यात्वा । तं देवगिरिं विमुच्याऽग्रतो गत्वेत्यर्थः । अविरलगलन्निर्झरान्तर्मलां । अविरलं सततं गलद्भिः प्रपतद्भिः निर्झरैः प्रपातैः प्रखवणैर्वा अन्तः मध्ये प्रवाहं मलः जम्बालादिरूपः यस्याः सा । ताम् । ' उत्सः प्रस्रवणं वारिप्रवाही निर्झरो झरः , इत्यमरः । सुरभितनयालम्भजां । सुरभेः कामघेनोः तनयाः सुताः सुरभितनयाः । गावः इत्यर्थः । तासां आलम्भाद्विशसनात् जायते इति सुरभितनयालम्भजा । तां । ' सुरभिर्गविच स्त्रियां ' इत्यमरः । आल म्भनमालम्भः विशसनमित्यर्थः । ' आलम्भपिञ्जविशरघातोन्माथवधा अपि ' इत्यमरः । ' घञ्खे च गे:' इति लभेर्गिपूर्वस्य नुमागमः । जनवदनजां । जनानां वदनानि मुखानि जनवदनानि । तेभ्यो जायते इति जनवदनजा । ताम् । भुवि जगत्यां स्रोतोमूर्त्या प्रवाहाकारेण । स्त्रोतसः प्रवाहस्य मूर्तिः शरीरं स्त्रोतोमूर्तिः । तया । ' स्त्रोत इन्द्रिये निम्नगारये । ' इत्यमरः । ' स्रवति स्त्रोतः । स्यः प्रवाहो लक्षणया स्त्रोतः इति क्षीरस्वामी । ' मूर्तिः कायेऽपि काठिन्ये मृत्युयाचितयोर्मतम् ' इति विश्वलोचने । परिणतां अवस्थान्तरं प्राप्तां । रन्तिदेवस्य दशपुराधिपतेर्महाराजस्य । यदुक्तं अथ प्रीतो राजा पशुनिवहमालभ्य विधिना । बहूनीजे यज्ञान्बहुमतिपदं भू-दिविषदाम् ॥ विशस्तानां तस्यां मखभुवि पशूनामयुतशः । स्रवन्ती सस्यन्दे क्षतजविसरैश्वर्मंगलितैः ॥ चर्मण्वतीति तव कीर्तिरनन्तकीर्तेः शश्वत्पुनातु धरणीं सरिदात्मनेति' इति रन्तिदेवचरिते । अकीर्ति सुरभिसहस्रालम्भजमयशः तां प्रसिद्धां चर्मण्वतीनदीं प्राप्य आसाद्य पुण्यतोयैः पावनोदकैः । पुण्यानि पावनानि तोयानि जलानि पुण्यतोयानि । तैः । तीर्थोदकैरित्यर्थः । क्षालयन् प्रक्षास्य विशोधयन् तां नदीं कीर्ति यशः मानयिष्यन् सम्भावयितुमिच्छन् । क्षिप्राशंसोक्तौ लट्लङ्' इत्याशंसायामिच्छायां लटिलटो वाऽनितौ शतृशानौ' इति शतृत्यः । रन्तिदेवस्य कीर्तिरेतन्नदी स्रोतोरूपेण
C
Jain Education International
•
For Private & Personal Use Only
www.jainelibrary.org