SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ १७६ [ पार्श्वभ्युदये समीचीनां पूजां । ' सपश्चिाहणाः समाः ' इत्यमरः। प्रथमं पूर्व । विधेहि कुरु । पश्चात् अनन्तरं हरशशिरुचा । शशिनश्चन्द्रमसः रुक् उद्योतः शशिरुक् । हरा मनोहरा चासौ शशिरुक् च हरशशिरुक् । हरत्यधं दुःखीमति हरा । पचाद्यच् स्त्रियां टाप् च । ' पुंवद्यजातीयदेशीये' इति पुंवद्भावः। तया हरशशिरुचा । यद्वा हरस्य पूर्वोत्तरस्याः दिशः स्वामिनः यः शशी तस्य रुचा कान्त्या । ज्योत्स्नयेत्यर्थः । धौतापाग। धौतौ धवलीकृतौ अपाङ्गौ नेत्रान्तौ यस्य सः । तम् । 'अपाङ्गौ नेत्रयोरन्तौ' इत्यमरः । पावकेः पावकस्य धर्मस्य पुत्रापत्यं पावकः । 'इञतः' इत्यपत्यार्थे इञ् । तस्य । मयूरं कलापिनं । स्कन्दस्य वाहनभूतं केकिनमित्यर्थः । अद्रिग्रहणगुरुभिः । अद्रेः देवगिरेः ग्रहणेन गह्वरे सङ्क्रमणेन गुरुभिः गौरवं प्राप्तैः। प्रवृद्धरित्यर्थः । गर्जितैः गर्जिध्वनिभिः नर्तयेथाः नाटय । नृत्यं कारयेत्यर्थः । 'मयूरः नृत्यति' इत्यत्राण्यन्तावस्थायां 'नृती गात्रविक्षेपे' इत्यस्य धे|र्मयूरप्राणिकर्तृकत्वाण्ण्यन्तावस्थायां ण्यन्ताद्धोः 'नाऽणो धेः प्राणिकर्तृकाण्णे' इति दस्य प्रतिषेधान्मं । नृत्यतेश्चलनार्थत्वात् 'चल्यद्यर्थात् ' इति ण्यन्तत्वात्प्राप्तं मं न भवति — पादम्याङ्यस्परिमुहरुचिनृद्धेड्वद्वसः ' इति दस्य विधानात् । First of all, you should perforın deserving and excellent worship of him who owes his birth to the excellent righteousness purifying all the worlds. Thereafter, you should cause the peacock of the offspring of the purifier (pavaka ), with the angles of (his ) eyes rendered (more ) bright by the lustre of the captivating moon, to dance by (your ) thunderings deepened on account of (their) being reverberated by the mountain ( Devagiri). हृद्ये स्वच्छे सरसि विपुले धर्मसञ्ज्ञे भवत्वा ल्लब्धाभिख्यं भुवनजनतामाननीयं व्रजाऽऽशु । आराध्यैनं शरवणभवं देवमुल्लाङ्घतावा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः ॥ ३५ ॥ अन्वयः- हृद्ये स्वच्छे विपुले धर्मसझे सरसि भवत्वात् लब्धाभिख्यं भुवनजनतामाननीयं एनं शरघणभवं देवं आराध्य उल्लङ्किताध्वा, जलकणभयात् वीणिभिः सिद्धद्वन्द्वैः मुक्तमार्गः आशु व्रज । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy