________________
१५२
[ पार्श्वभ्युदये ___At that time (i. e. when you would be listening to the prayars), you, expanding your bodily form in the sky, worshipping Jina by waving lights in the form of lightnings very gladly, assuming the evening lustre red like that of a fresh Japā flower, would be looked at again and again as if cherishing fondness for the worship of the Lord.
भक्ति कुर्वशतमख इवाऽऽविर्भवदिव्यरूप
श्चित्रां वृत्तिं स्वरसरचितां शैखिनी वा मनोज्ञां । कण्ठच्छायां स्ववपुषि वहन्मा स्म यन् साधुवादं
नुत्तारम्भे हर पशुपतेरा नागाजिनेच्छाम् ॥ १५॥ अन्वय :- शतमखः इव पशुपतेः भक्ति कुर्वन् , आविर्भवद्दिव्यरूपः, स्वरसरचितां द्विव्यां वृत्तिं मनोजी शैखिनी कण्ठच्छायां वा स्वबपुषि वहन, नृत्तारम्भे साधुवादं यन् आर्द्रनागाजिनेच्छां मा स्म हर ।
भक्तिमित्यादि । शतमखः इव सौधर्मेन्द्रः इव पशुपतेः अहिंसाधर्मोपदेशेन प्राणिगणरक्षणपरस्य भगवतो जिनेन्द्रस्य । पातीति पतिः। पशूनां भृगादिप्राणिमात्रस्य पतिः पाता। तस्य । भक्ति गुणानुरागं कुर्वन् विदधानः । जन्मादि. कल्याणकाले यथा सौधर्मेन्द्रो भगवतो जिनेन्द्रस्य सहस्रनामोच्चारणेन भक्ति विदधाति तथा भक्ति कुर्वन्नित्यर्थः । आविर्भवद्विव्यरूपः आविर्भवत् प्रकटीभवत् दिव्यं रूपं यस्य सः। स्वरसरचितां स्वेच्छाविहितां । स्वस्य आत्मनः रसेन अभिलाषया । इच्छयेत्यर्थः । रचितां कृतां । दिव्यां मनोहारिणीं। 'दिव्यं तु वल्गौ दिविभवेऽन्यवत्' इति विश्वलोचने । वृत्ति अवस्थां। परिणतिमित्यर्थः । मनोज्ञां सौन्दर्यबन्धुरा शैखिनी मायूरी। शिखिनः मयूरस्येयं शैखिनी। ताम् । कण्ठच्छायां ग्रीवाकान्ति । कण्ठस्य ग्रीवायाः छाया कान्तिः कण्ठद्युतिः। ताम्। वा च। स्ववपुषि स्वशरीरे -वहन् धरन् । नृत्तारम्भे नृत्तोद्यमे । नृत्तक्रियाविषये नृत्तकाले वेत्यर्थः । 'आरम्भः उद्यमे दर्प त्वरायां च वधेऽपि च ' इति विश्वलोचने। साधुवादं प्रशंसा । 'साधु, साधु' इति वादः साधुवादः । तम् । यन् । प्राप्नुवन् । आर्द्रनागाजिनेच्छां आर्द्रनागकेसरकुसुमेच्छां जलपूर्णमेघानां प्रबलामिच्छां वा। आर्द्राः प्रत्यग्राणि नागकेसराः नागकेसरकुसुमानि। 'पुष्पमलेषु बहुलं' इति पुष्पप्रत्ययस्यो । तेषां आ समन्तात् जिना जित्वरी इच्छा आर्द्रनागाजिनेच्छा तां । यद्वा आHः जलपरिपूर्णाः नागाः मेघाः आर्द्रनागाः । तेषां आजिनां अतिशयेन जित्वरी। तीवामित्यर्थः । इच्छां जिनपूजना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org