SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये आशाबन्धः । कर्तृपदमेतत् । रक्षति प्रतिबध्नाति । इति मन्ये एवमहं जानामि । उपयमनान्तरकाले सुरताभिलाषाऽपि सा वसुन्धरा त्वद्विरहे अपि अनाचरितदुराचारा सती यदजीवत्तन्मे विस्मयावहं । उपयमनान्तरं मत्सम्बन्धात्पूर्वे च यः विरहकालः आसीत् तस्मिन् सा विरहदुःखिता कामसन्तप्ता सत्यपि मरणं न प्राप्तेति महदाश्चर्ये । तदैवतयाऽऽचरितदुराचारया भाव्यमासीत् । तथापि सा सदाचारसम्पन्नैवासीत् । अनन्तरमकामानदाहा त्वद्विरहस्यानारतत्वात् दुराचारं सिषेवे इति कमठचरयक्षाभिप्रायः । ४२ It is a matter of great wonder to me that she, separated from you after marriage, had not, though strongly desirous of having enjoyment (intercourse), been illegally connected with any one other than you and yet had been alive. I think the bond of hope generally prohibits the mind, which is (frail) like a flower, of the ladies involved into distress from expelling their lives (i. c. committing a suicide). तच्चाश्चर्यं यदहमभजं त्वद्वियोगेऽपि कामान् प्राणैरातेः किमनुकुरुते जीवलोको हताशः । पुंसां धैर्य किमुत सुहृदां किं पुनःसङ्गमाशा सद्यः पाति प्रणयिहृदयं विप्रयोगे रुणाद्ध ? ॥ ३६ ॥ अन्वयः यत् च अहं त्वद्वियोगे अपि कामान् अभजं तत् आश्चर्य । प्राणैः आर्तः हताशः जीवलोकः पुंसां धैर्ये किं अनुकुरुते ? किमुत सुहृदां ! विप्रयोगे पुनः सङ्गमाशा पाति प्रणयिहृदयं सद्यः रुणद्धि किम् ? तश्चाश्चर्यमित्यादि । यत् च अहं कमठचरः त्वद्वियोगे अपि भवतः वियोगे जाते सत्यपि कामान् इन्द्रियविषयान् । 'कामः स्मरेच्छयोः काम्ये ' इति विश्वलोचने । अभजं सेवे स्म तत् आश्चर्यं तत् विस्मयावहं । प्राणैः मनोबलैः असुभिः वा आर्तः दुःखितः । विकृतमनोबलो दुःखितप्राणो वेत्यर्थः । हताशः हता विफलीभूता आशा अभिलाषः यस्य सः । आशा तृष्णादिशो:' इति विश्वलोचने । जीवलोकः संसारिजनः पुंसां सामान्यपुरुषाणां धैर्यं मनस्तोषं चातुर्य धीरत्वं वा किं अनुकुरुते अनुसति किम् ? अपि तु नेति भावः । आर्तस्य पुंसः मनस्तोषः चातुर्य धीरत्वं वा विगलति । गलितविवेकश्च कार्याकार्यविवेकविकलो जायते । तादृशश्चाहं त्वद्वियोगदुःखार्तः सन् कार्याकार्यविवेक विकलत्वात् कामान् अभजं । मरु ू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy