________________
३२
आद्यः कल्पस्तव न सुकरो दुर्घटत्वान्नं चान्त्यः श्लाघ्यो दैन्यान्मुनिमत ततो मध्यकल्पाश्रयस्ते श्रेयांस्तस्मिन् सुखमनुभवेरप्सरोभिस्तदुच्चैः
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम् ॥ २७ ॥ यस्यां रात्रेरपि च विगमे दम्पतीनां विधत्ते ।
प्रीति प्रातस्तननिधुवन ग्लानि मुच्चैर्हरन्ती । दृष्टा सा सततविरहोत्कण्ठितैश्चक्रवाकैः बाह्योद्यानस्थितहरशिरश्चन्द्रिका धौतहर्म्या | २८ ॥
अन्वयः - दुर्घटत्वात् आद्यः कल्पः तव सुकरः न, दैन्यात् च अन्त्यः श्लाध्यः न । ततः हे मुनिमत ! मध्यकल्पाश्रयः ते श्रेयान् । तस्मिन् अप्सरोभिः उच्चैः सुखं अनुभवेः । तत् यस्यां (या ) रात्रेः विगमे अपि दम्पतीनां प्रातस्तन निधुवन • ग्लानिं उच्चैः हरन्ती प्रीतिं विधत्ते सा धौतहर्म्या बाह्योद्यानस्थितहरशिरश्चन्द्रिका सततविरहोत्कण्ठितैः चक्रवाकैः साखं दृष्टा यक्षेश्वराणां अलका नाम वसतिः ते गन्तव्या
4
[ पार्श्वाभ्युदये
,
८
3
आद्यः कल्प इत्यादि । दुर्घटत्वात् । दुःखेन घटयते इति दुर्घटं ।' स्वीषदुसि कृच्छ्राकृच्छ्रे खः ' इति खः । तस्य भावः दुर्घटत्वं । तस्मात् । आद्यः प्रथमः कल्पः प्रकारः जेतुं शक्तः ' इत्यादिश्लोकेन वर्णितः । ' कल्पो ब्राह्मदिने न्याये प्रलये विधिशान्तयोः ' इति विश्वलोचने । तव ते सुकरः सुखेन क्रियते इति सुकरः । सुखसाध्यः इत्यर्थः । न न भवति । दैन्यात् दीनत्वात् हेतुभूतात् च अन्त्यः अन्ते भवः अन्त्यः । चरमः इत्यर्थः । ' नैवं दाक्ष्यं ' इत्यादि श्लोकार्थेन प्रतिपादितः श्लाध्यः न श्लाघनीयः प्रशंसनीयः न भवति । ततः तस्मात् कारणात् । हे मुनिमत ! अनुमत ! मुनिभिः मतः अनुमतः । तस्य किः । ' मतोऽचितेऽप्यनुमते इति विश्वलोचने । मन ज्ञाने ' इत्यस्मद्धोः ' तः इति भूते तसंज्ञकः क्तस्त्यः । मनुते स्म मतः । ' त्रीन्मत्यचार्थशील्पादिभ्यः क्तः' इत्यादिना वर्तमानार्थत्वे क्तस्य चाधारसतोः ' इति तान्तत्वस्य नियमात् सस्याऽभावः, ' कर्तरिक्तेन ' इत्यनेन तस्य निषिद्धत्वात् । मध्यकल्पाश्रयः । मध्यश्चासौ कल्पश्च मध्यकल्पः । तस्य आश्रयः आश्रयणं । स्वीकरणमित्यर्थः । ते तव श्रेयान् अतिशोभनः । ' श्रेयान् श्रेष्ठः पुष्कलः स्यात् खत्तमश्चातिशोभनः ' इत्यमरः । तस्मिन् मध्यकल्पाश्रयणे कृते सति, स्वर्गे वा अप्सरोभिः दिव्याङ्गनाभिः उच्चैः अतिशयेन । अत्यर्थमित्यर्थः । सुखं अनुभवे
८
>
C
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org