SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ इन्द्रादिस्तुतिः , इत्थं श्रीमहावीरवाक्प्रबन्धं सुधोपमम् । समाकर्ण्याऽति सन्तुष्टाः, गौतमश्रेणिकादयः ॥ देवा इन्द्रादयः सर्वे, प्रणमन्ति पुनः पुनः । तथैव यक्षिणीमुख्या, देव्यः स्तुवन्ति भूरिशः ॥ प्रवृत्तिश्च निवृत्तिश्च, धर्मावेतौ प्ररूपितौ । गृहस्थत्यागिधर्मेभ्यः, क्लेशा नश्यन्ति सर्वथा ॥ स्वन्नामरूपयोर्वीर ! मग्नचित्तो भविष्यति । देवा देव्यश्च तस्यैव करिष्यन्ति सहायकम् ॥ दुःखसंकट मग्नानां त्वद्भक्तानां सहायताम् । hot प्रीत्या करिष्यामि त्वद्धर्मोऽस्ति जयावहः ॥ आचार्येष्ववतीर्याऽहं करिष्ये धर्मविस्तृतिम् । प्राप्स्यन्ति देवदेव्यश्च त्वद्भक्तगृह्जन्मताम् ॥ दिक्पालाः प्रेमतः सर्वे, कुर्वन्तस्त्वत्पदाऽचैनम् । धर्मोद्धारकसूरीशसाहाय्यं कुर्वते सदा ॥ गुप्तागुप्तोपदेशस्ते, कलौ सर्वत्र वर्त्तते । सर्वदा मत्सहायेन, दैवी संपद्भविष्यति ॥ देवबलात्करिष्यन्ति, त्वद्भक्ता धर्मसङ्गतिम् । आसुरीशक्तिरत्यन्तं, प्रलयं यास्यति स्वयम् ॥ Jain Education International , For Private & Personal Use Only २ ५. ६ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy