________________
शक्तियोगाऽनुमोदना
शक्तियोगं समाकर्ण्य, युवराजा भयोऽभयः । हर्षोल्लासेन संस्तौति, शक्तियोगं गुणालयम् ॥ सिंहवज्जैनसंघेन, स्थातव्यं सर्वशक्तिभिः । सिंहाङ्कितो महावीर, आज्ञापयति सर्वथा ॥ जयतु श्रीमहावीरो, जैनधर्मप्रकाशकः । पातु चरमतीर्थेशो, जैनानां सर्वशक्तिदः ॥ सर्वपराक्रमख्यातः, सिंहलाञ्छन संज्ञया । पञ्चमारे महावीरो, भूयान्नः सर्वशक्तिदः ॥ प्राप्तव्या जैनसंघेन, सर्वजातीयशक्तयः । जैनानां जीवनं नैव, कलौ शक्ति विना कदा ॥ मनोवाक्कायशक्तीनां विकासो योग्यशिक्षणैः । कर्त्तव्यः सर्वसंघेन, देशकालानुसारतः ॥ स्वात्मरक्षण शस्त्रादिशिक्षणं सर्वयुक्तितः । सर्वथा सर्वदा ग्राह्यं, धर्मस्वातन्त्र्यरक्षकम् ॥ विद्याव्यापारसत्तादिशक्तीनां रक्षणार्थिभिः । शौर्यायैः सिंहवज्जैनैः, स्थेयं सर्वत्र कर्मसु ॥ निर्बला नैव जीवन्ति, शक्तिविद्याधनं विना । प्राकटयं सर्वशक्तीनां, जैनसंघोन्नतिप्रदम् ॥
Jain Education International
For Private & Personal Use Only
२
३
८
www.jainelibrary.org