SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ३२१ ३२२ ३२३ ३२४ चेटकस्तुतिः ] अनन्तदेहपृथ्वीनां, ज्ञानाऽनुभवधारकः । भूलोकानां ग्रहाणाञ्च, शासकः पूर्णशक्तितः॥ लय एव महारात्रिः, सर्ग एव महादिनम् । लयसर्गेषु सूत्रात्मा, महावीरो महाजिनः ॥ अभिन्नो लयसर्गेभ्यो, महावीरो जिनेश्वरः । पर्यायाणां गुणानां यो, व्ययोत्पादस्य धारकः ॥ महावीरगुणानां च, पर्यायाणां स्वभावतः। लयस! व्ययोत्पादौ, बोद्धव्यौ सर्वयुक्तितः ॥ स्थूलसूक्ष्मेषु भावेषु, व्ययोत्पादधुवात्मता। ब्रह्माण्डेषु च पिण्डेषु, वीरज्ञानेन बोध्यते ॥ सर्वब्रह्माण्डपिण्डानां, व्ययोत्पादधुवात्मता। सर्वज्ञश्रीमहावीराद्भिन्नाऽभिन्ना स्वभावतः ॥ अभेद ज्ञानपर्याययोगेन सर्वसत्तया। परब्रह्ममहावीर, एक एव प्रभुर्महान् ॥ केवलज्ञानपर्यायज्ञेयानां भिन्नयोगतः। भिन्नं जगन्महावीराद्भिन्नद्रव्याद्यपेक्षया ॥ सर्वब्रह्माण्डसारोऽस्ति, मनुष्ये सूक्ष्मरूपतः। अतो मनुष्यदेहेन, वीरात्मा प्राप्यते जनैः ॥ मानवपिण्डचक्राणां, ध्यानयोगेन मानवैः। सर्वब्रह्माण्डवस्तूनां, ज्ञानं हि क्रियते स्वतः ॥ सर्वब्रह्माण्डबोधार्थ, पिण्डचक्रेषु धारणा। ध्यानयोगः समाधिश्च, साध्यो पूर्णविवेकतः॥ ३३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy