________________
प्रतिपातादि स्थानोंका अल्पबहुत्व
अथ प्रतिपद्यमानसकलसंयमलब्धिस्थानस्वामिभेदावधारणार्थमिदमाह
तत्तो पडिवज्जगया अज्जमिलेच्छे मिलेच्छअज्जे य । कमसो अवरं अवरं वरं वरं होदि संखं वा ॥ १९५ ।। ततः प्रतिपद्यगता आर्यम्लेच्छे म्लेच्छार्ये च ।
क्रमशोऽवरमवरं वरं वरं भवति संख्यं वा ॥ १९५ ॥ सं० टी०-तस्माद देशसंयमप्रतिपाताभिमुखोत्कृष्टप्रतिपातस्थानादसंख्येयलोकमात्राणि षटस्थानान्यन्तरयित्वा मिथ्यादष्टिचरस्यार्यखण्डजमनुष्यस्य सकलसंयमग्रहणप्रथमसमये वर्तमानं जघन्यं सकलसंयमलब्धिस्थानं भवति । ततः परमसंख्येयलोकमात्राणि षट्स्थानान्यतिकम्य म्लेच्छभूमिजमनुष्यस्य मिथ्यादृष्टिचरस्य संयमग्रहणप्रथमसमये वर्तमानं जघन्यं संयमलब्धिस्थानं भवति । ततः परमसंख्येयलोकमात्राणि षट्स्थानानि गत्वा म्लेच्छभूमिजमनुष्यस्य देशसंयतचरस्य संयमग्रहणप्रथमसमये उत्कृष्टं संयमलब्धिस्थानं भवति । ततः परमसंख्येयलोकमात्राणि षट्स्थानानि गत्वा आर्यखण्डजमनुष्यस्य देशसंयतचरस्य संयमग्रहणप्रथमसमये वर्तमानमत्कृष्टं सकलसंयमलब्धिस्थानं भवति । एतान्यार्यम्लेच्छमनुप्यविषयाणि सकलसंयमग्रहणप्रथमसमये वर्तमानानि संयमलब्धिस्थानानि प्रतिपद्यमानस्थानानीत्युच्यन्ते । अत्रार्यम्लेच्छमध्यमस्थानानि मिथ्यादष्टिचरस्य वा असंयतसम्यग्दृष्टिचरस्य वा देशसंयतचरस्य वा तदनुरूपविशुद्धया सकलसंयम प्रतिपद्यमानस्य सम्भवन्ति । विधिनिषेधयोनियमावचने सम्भवप्रतिपत्तिरिति न्यायसिद्धत्वात् । अत्र जघन्यद्वयं यथायोग्यतीव्रसक्लेशाविष्टस्य. उत्कृष्टद्वयं तु मन्दसंक्लेशाविष्टस्येति ग्राह्यं । म्लेच्छभूमिजमनुष्याणां सकलसंयमग्रहणं कथं संभवतीति नाशंकितव्यं दिग्विजयकाले चक्रवर्तिना सह आर्यखण्डमागतानां म्लेच्छराजानां चक्रवादिभिः सह जातवैवाहिकसम्बन्धानां संयमप्रतिपतेरविरोधात् । अथवा तत्कन्यकानां चक्रवादिपरिणीतानां गर्भेषत्पन्नस्य मातपक्षापेक्षया म्लेच्छव्यपदेशभाजः संयमसंभवात् तथाजातीयकानां दोक्षार्हत्वे प्रतिषेधाभावात ॥ १९५ ।।
प्रतिपद्यमानस्थानोंका कथन
सं० चं०-प्रतिपात स्थाननिके ऊपरि असंख्यातलोकमात्र स्थान ऐसे हो हैं जिनिका कोऊ स्वामी नाहीं तिनिका अन्तरालकरि प्रतिपाद्यमान स्थान हो हैं। सो सकलसंयमकी प्राप्तिका प्रथम समयविर्षे जे सम्भ८ ते प्रतिपद्यमान स्थान जानना । तहाँ प्रथम आर्यखण्डका मनुष्य मिथ्यादृष्टितै सकलसंयमी भया ताकै जघन्य स्थान हो है । बहुरि ताके ऊपरि असंख्यातलोकमात्र षट्स्थान जाय म्लेच्छखण्डका मनुष्य मिथ्यादृष्टिः सकलसंयमी भया ताका जघन्यस्थान हो है। ताके ऊपरि असंख्यातलोकमात्र षटस्थान जाइ म्लेच्छखण्डका मनुष्य देशसंयततै सकलसंयमी भया ताका उत्कृष्ट स्थान हो है। बहुरि तात असंख्यातलोकमात्र षट्स्थान जाइ आर्यखण्डका मनुष्य देशसंयततै सकलसंयमी भया ताका उत्कृष्टस्थान हो है । इहाँ असंख्यातलोकमात्र षट्स्थान जाइ कह्या तहाँ असंख्यात लोकमात्र षट्स्थान पतित वृद्धि जाननी। बहुरि इहां आर्य-म्लेच्छके जघन्य अर मध्यके-बीचिके जे स्थान हैं ते मिथ्यादृष्टितै वा असंयततै वा संयतासंयतः सकलसंयमी भए तिनके यथासम्भव जानने । जातें किछू नियम कह्या नाहीं।
१. कम्मभूमियस्स पडिवज्जमाणयस्स जहण्णयं संजमट्टाणमणंतगुणं । अकम्मभूमियस्स पडिवज्जमाणयस्स जहण्णयं संजमट्ठाणमणंतगुणं । तस्सेवुक्कस्सयं पडिवज्जमाणयस्स संजमट्ठाणमणंतगुणं । कम्मभूमियस्स पडिवज्जमाणयस्स उक्कस्सयं संजमट्ठाणमणंतगुणं । क० चु० जयध० पु० १३, पृ० १८३-१८५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org