________________
देशसंयममे अल्पबहुत्व कथन
१५५
विशुद्धिहान्या सर्वजघन्यदेशसंयमशक्तिकस्य मनुष्यस्य तदनन्तरसमये मिथ्यात्वं प्रतिपत्स्यमानस्य भवति । तत्र सम्यक्त्वदेशसंयमयोविनाशसंभवात् । तथा तिर्यग्जीवस्य जघन्यं प्रतिपातस्थानं सम्यक्त्वदेशसंयमाभ्यां प्रच्युत्य मिथ्यात्वं गमिष्यतो देशसंयमकालचरमसमये संभवति । एतच्च मनुष्यजघन्यप्रतिपातस्थानादनन्तगुणविशुद्धिकज्ञेयम् । असंख्यातलोकवारषट्स्थानपतितविशुद्धिवृद्धया वर्धमानत्वात् । तथा तिर्यग्जीवस्य स्वयोग्यसंक्लेशवशेन देशसंघमात्प्रच्यवमानस्य तत्कालचरमसमये उत्कृष्ट प्रतिपातस्थानमसंयतसम्यग्दृष्टिगुणस्थानं प्राप्स्यतो भवति । इदमपि तिर्यग्जघन्यप्रतिपातस्थानादनन्तगुणविशुद्धिकं प्राग्वज्ज्ञेयम् । तथा मनुष्यस्य देशसंयमात्प्रच्युत्य स्वयोग्यसंक्लेशवशेनानन्तरं वेदकासंयतगुणस्थानं गमिष्यतः उत्कृष्ट प्रतिपातस्थानं भवति । इदमपि तिर्यगुत्कृष्टप्रतिपातस्थानादनन्तगुणविशुद्धिकं प्राग्वद् ज्ञेयम् ।।
मनुष्यजघन्यप्रतिपातस्थानादारभ्य तिर्यग्जीवस्यानुत्कृष्टप्रतिपातस्थानपर्यंतं संभवन्ति प्रतिपातस्थानानि मिथ्यात्वाभिमुखस्यैव देशसंयमकालचरमसमये दष्टव्यानि तिर्यगुत्कृष्टप्रतिपातस्थानादारभ्य मनुष्योत्कृष्टप्रतिपातस्थानपर्यन्तं सन्ति प्रतिपातस्थानानि असंयतसम्यक्त्वाभिमुखस्य स्वकालचरमसमये घटन्त इत्यर्थविशेषो ग्राह्यः । तिर्यगुत्कृष्टप्रतिपातस्थानान्मनुष्योत्कृष्टप्रतिपातस्थानं पूर्ववदनन्तगुणविशुद्धिकं ज्ञातव्यम् ।
तथा मनुष्यस्य पूर्व मिथ्यादृष्टिभूत्वा पश्चात्सम्यक्त्वेन सह देशसंयमं प्रतिपद्यमानस्य तत्प्रथमसमये संभवज्जघन्यप्रतिपद्यमानस्थानं मनुष्योत्कृष्ट प्रतिपातस्थानादनन्तगुणविशुद्धिकं अन्तरेऽसंख्यातलोकमात्राणि षट्स्थानान्युल्लध्य समुत्पादात् तथा तिर्यग्जीवस्य मिथ्यादृष्टिचरस्य सम्यक्त्वदेशसंयमौ युगपत् प्रतिपद्यमानस्य तत्प्रथमसमये वर्तमानं जघन्यं प्रतिपद्यमानस्थानं मनुष्यजघन्यप्रतिपद्यमानादनन्तगुणविशुद्धिकं प्रतिपत्तव्यम् । तथा तिर्यग्जीवस्य प्रागसंयतसम्यग्दष्टिभ त्वा पश्चादेशसंयमं प्रतिपद्यमानस्य तत्प्रथमसमये संभवदुष्कृष्टप्रतिपद्यमानस्थानं तिर्यग्जघन्यप्रतिपद्यमानस्थानात्प्राग्वदनन्तगुणविशुद्धिकं बोद्धव्यम् । तथा मनुष्यस्यासंयतसम्यग्दृष्टिचरस्य देशसंयम प्रतिपद्यमानस्य तत्प्रथमसमये घटमानमत्कृष्टं प्रतिपद्यमानस्थानं तिर्यगत्कृष्ट प्रतिपद्यमानस्थानात् पूर्ववदनन्तगुणविशुद्धिक निश्चेतव्यम् । मनुष्यजघन्यप्रतिपद्यमानात्प्रभृति तिर्यगनुत्कृष्टप्रतिपद्यमानस्थानपर्यन्तं संभवन्ति प्रतिपद्यमानस्थानानि मिथ्यादृष्टिचरस्येति ग्राह्यम् । तिर्यगुत्कृष्टप्रतिपद्यमानस्थानादारभ्य मनुष्योत्कृष्टप्रतिपद्यमानस्थानपर्यन्तं विद्यमानानि स्थानानि असंयतसम्यग्दृष्टिचरस्य भवन्तीति ज्ञातव्यम् ।
तथा मनुष्यस्य मिथ्यादृष्टिचरस्य सम्यक्त्वेन सह देशसंयतं प्रतिपद्य द्वितीयसमये वर्तमानस्य जघन्यमनुभयस्थानं मनुष्योत्कृष्टप्रतिपद्यमानस्थानादनंतगुणविशुद्धिकं अन्तरेऽसंख्यातलोकमात्रषट्स्थानपतितविशुद्विवृद्धया वर्धमानत्वात् । तथा तिर्यग्जीवस्य मिथ्यादृष्टिचरस्य सम्यक्त्वेन सार्ध देशसंयमं प्रतिपद्य द्वियोयसमये वर्तमानस्य जघन्यमनुभयस्थानं मनुष्यजघन्यानुभयस्थानात्पूर्ववदनन्तगणविशुद्धिकम् । तथा तिर्यग्जीवस्यासंयतसम्यग्दृष्टिचरस्य देशसंयमं प्रतिपद्य एकान्तवृद्धिचरमसमये स्वगतियोग्यसर्वविशुद्धिविशिष्टस्योत्कृष्टमनुभयस्थानं तिर्यग्जघन्यानुभयस्थानात्प्राग्वदनन्तगुणं तथा मनुष्यस्यासंयतसम्यग्दृष्टिचरस्य देशसंयमं प्रतिपद्य एकान्तवृद्धिचरमसमय सर्वविशुद्धिविशिष्टस्य सकलसंयमाभिमुखस्योत्कृष्टमनुभयस्थानं तियंगुत्कृष्टानुभयस्थानात्प्राग्वदनन्तगुणविशुद्धिकं ग्राह्यम् । मनुष्यजघन्यानुभयस्थानादारभ्यतिर्यगनुत्कृष्टानुभयस्थानपर्यन्तं संभवन्ति स्थानानि मिथ्यादृष्टिचरस्येति ग्राह्यम् । तिर्यगुत्कृष्टानुभयस्थानादारभ्य मनुष्योत्कृष्टानुभयस्थानपर्यन्तं दृश्यमानानि स्थानानि असंयतसम्यग्दृष्टिचरस्येति ।
प्रतिपातद्विकस्य प्रतिपातप्रतिपद्यमानयोः अवरं मिथ्यात्वे पततः मिथ्यादृष्टिचरस्य संभवति वरमुत्कृष्टं देशसंयमलब्धिस्थानादसंयते पतिष्यतः असंयतचरस्य च संभवति । अनुभयजघन्यं मिथ्यादृष्टिचरस्य देशसंयमग्रहण द्वितीयसमये वर्तमानस्य भवति । अनुभयोत्कृष्टं तु असंयतचरस्य एकान्तवृद्धिचरमसमये मनुष्यस्य सकल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org