________________
(25) सीलण उ० देल्हण श्रे० बहुदा श्रे० महधरा उ० धणपाल श्रे०
पूनिग उ० बाघा श्रे० गोसल उ० बहडाप्रभृतिगोष्टि (ष्ठि)काः । अमीभिस्तथा 10 दशमीदिने श्रीनेमिनाथदेवस्य अष्टमाष्टाह्निकामहोत्सवः कार्यः । तथा श्रीअर्बु दोपरि देउलवाडावास्तव्य समस्तश्रावकैः श्रीनेमिनाथदेवस्य पञ्चापि कल्यारिणकानि यथादिनं प्रतिवर्ष कर्तव्यानि । एवमियं व्यवस्था श्रीचन्द्रावतीपतिराजकुलश्रीसोमसिंहदेवेन तथा तत्पुत्र राज० श्रीकान्हडदेवप्रमुखकुम (मा) रैः समस्तराजलोकैस्तथा श्रीचन्द्रावतीस्थानपति-भट्टारक-प्रभृतिकविलास तथा गूगली ब्राह्मण समस्तमहाजनगोष्ठिकैश्च तथा अर्बुदाचलोपरि श्रीअचलेश्वर-श्रीवशिष्ठ तथा सन्निहितग्राम देउलवाडाग्राम श्री श्रीमाता महबुग्राम आबुया (य) ग्राम-पोरासाग्राम ऊत्तर छ ग्राम सिहरग्राम, सालग्राम, हेठउंजीग्राम अाखीग्राम श्रीधान्धलेश्वरदेवीयकोटडीप्रभृति-द्वादशग्रामेषु संतिष्ठमानस्थान पतितपोधन-गूगुलीब्राह्मणराठीयप्रभृति समस्तलोकैस्तथा भालि
भाडाप्रभृतिग्रामेषु संतिष्ठमान-श्रीप्रतीहा(29) रवंशीय-सर्वराजपुत्रैश्च आत्मीयात्मीयस्वेच्छया श्रीनेमिनाथ
देवस्य मण्डपे समुपविश्योपविश्य महं० श्रीतेजःपालपार्थात् स्वीयस्वीयप्रमोदपूर्वकं श्रीलणसीहवसहिकाभिधानस्यास्य
धर्मस्थानस्य सर्वाऽपि रक्षापभारः स्वीकृतः । तदेतदा(30) त्मीयवचनं प्रमाणीकुर्वभि (द्भि) रेतैः सर्वैरपि तथा एतदीय
सन्तानपरम्परया च धर्मस्थानमिदमाचन्द्राक्कं यावत् परिरक्षणीयं ।। यतः।। किमिह कपालकमण्डलुवल्कलसितरक्तपटजटापटलैः । व्रतमिदमुज्ज्वलमुन्नतमनसां प्रतिपन्ननिर्वहरणं ।।छ।। तथा महाराजकुल-श्रीसोमसिंहदेवेन अस्यां श्रीलूणसिंहवसहिकायां श्रीनेमिनाथदेवाय पूजांगभोगार्थ बाहिरहट्यां डवाणी ग्राम: शासनेन प्रदत्तः ।। स च श्रीसोमसिंहदेवाभ्यर्थनया प्र
(पर)मारान्वयिभिराचन्द्राक्र्कं यावत् प्रतिपाल्यः ।। (32) सिद्धिक्षेत्रमिति प्रसिद्ध महिमा श्रीपुण्डरीको गिरिः, श्रीमद्
रैवतकोपि विश्वविदितः क्षेत्रं विमुक्त रिति । नूनं क्षेत्रमिदं द्वयोरपि तयोः श्रीअर्बु दस्तत्प्रभूभेजाते कथमन्यथा सममिमं श्रीआदिनेमी स्वयम् ।।1।। संसारसर्वस्वमिहैव मुक्तिः स
26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org