SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रोदयनाटकम् । अनादिनिधनद्रव्यमीक्षते* नान्यसाधनम् । स्वभावसिद्धिसंसिद्धमद्भुतं धाम चेष्टते ॥ २९ ॥ Jain Education International कादाचित्कत्वान्न पर्यायो द्रव्यान्तरमपेक्षते । पर्यायनिष्ठ तदेकमेवोपपद्यते ॥३०॥ द्रव्यं स्वभावतः सिद्धं सदित्यपि तथा पुनः । द्रव्यादर्थान्तरं नैव सत्तोत्पत्तिः प्रपद्यते ॥३१॥ समवायेन सत्तायाः सद् द्रव्यं नार्थभिन्नता । द्वयोस्तु युतसिद्धस्यासम्भवाद् दण्डदण्डिवत् ॥ ३२ ॥ न चाप्ययुत सिद्धत्वेनोपपद्येत वस्तुता । इदमत्र निष्ठा चेत् प्रतीतिः किंनिबन्धना ॥ ३३॥ यदि भेदं निबध्नाति भेदः को नाम कथ्यताम् । यदि प्रादेशिको नैष युतसिद्धापसारणात् ॥ ३४ ॥ स्यादताद्भाविकः शिष्टो द्रव्यं तन्न गुणो मतः । न चैकान्तेन बध्नाति प्रतीतिमिदमत्र यत् ॥ ३५॥ शुभ्र गुणोऽस्ति वस्त्रस्य स्यादताद्भाविकोऽपृथक् । स्वयमुन्मज्ञ्जति स्वैरं द्रव्यं गुणवदित्यतः ॥ ३६ ॥ उत्तरीयमिदं शुभ्रं द्रव्यं द्रव्यतयार्पणात् । स्यादवाभाविको भेदो निमज्जति समूलतः ||३७|| यत्रोन्मज्जति भेदविभ्रमभरस्तत्रायुतोन्मज्जनं प्रोन्मज्जज्जलराशितो न च पृथक् कल्लोललोलायितम् । भेदे मज्जति मज्जति त्वयुतता द्रव्यं लसत् केवलं स्वैरोन्मग्ननिमग्नतामुपगतं सद्द्रव्यमेवं ध्रुवम् ||३८|| द्रव्यं निजस्वभावे सदस्ति सर्गस्थितिप्रलयतायाः । . ऐक्यात्मक परिणामः स्वभाव इति निगदितस्तस्य ॥ ३९ ॥ यथा द्रव्यस्य विष्कम्भकमव्यापारवर्तिनः । सूक्ष्मांशास्तु प्रदेशाः स्युर्ब्रव्यवृत्तेः समन्ततः ॥ ४०॥ * ' कादाचित्कत्वात् पर्यायो न द्रव्यान्तरमीक्षते' इति प्रतौ टिप्पणम् । २९-३८=तदी २.६ । ३९ = प्रसा २.७ । ४०-४४ = तदी २.७ । For Private & Personal Use Only २१ www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy