________________
ज्ञानचन्द्रोदयनाटकम् ।
इदमेकान्तविश्रान्तचिच्चमत्कारलक्षणम् । अखण्डमचलं धाम स्वात्माराममुदश्चयेत् ॥८॥ उद्यत्सान्द्र सुधासुधांशुकिरणव्याविद्धचन्द्रोपलज्योत्स्नानिर्भरवस्तुवास्तवसमावस्थानतावस्थितम् । द्वैताद्वैतमिति प्रपञ्चरचनामुक्षिप्य पक्षान्तरं स्वारूप्यानुभवैकगम्यचरितं चित्ते चिरं धारय ॥९॥ रागद्वेषद्वयदृढतरग्रन्थिगुम्फावरुद्धो द्रव्याधन्यत्वपरपरिणत्याऽऽददानः परत्वम् । अज्ञानात्मभ्रमभरतिस्कारकारो जजम्भे भेदज्ञानप्रसरभिदुरोद्भेदनेन स्वभेदम् ॥१०॥ उन्मज्जक्षीरसिन्धुद्रवरसलहरीमध्यमध्यागतोऽयं प्रोन्मीलन्मोहरागद्वयविविधविधं सेतुबन्धं बबन्ध । बन्धः सम्बन्धपूर्वक्रमगतपरमाश्लेषसंश्लेषदोषात् । संविदम्भोलिधारा किरणविकिरणैर्दीयतां निर्दयेन ॥११॥ प्रत्यक्षादिप्रमाणाज्जिनवचनचयापेक्षितार्थप्रतीतेबुद्ध्वा द्रव्यादिभावान् स्वगतमतिबलादात्मतत्त्वावबोधे । प्रोद्भुते मोहपक्षक्षपणनिपुणतामादधानः परेभ्यो व्यावृत्त्य स्वच्छशुद्धस्वरसवशतया स्वस्वभावं धिनोति ॥१२॥ शब्दब्रह्मविविक्ततत्त्वमचलं निश्चित्य निश्चिन्ततामाधाय क्षणमक्षपक्षमभितः काषंकषित्वात् क्षयम् । नीत्वा जेतुमभीप्सुरुद्धतमहामोह प्रतापोदयं प्रारेभे रणरङ्गमङ्गसकलज्ञानासिधारः पुमान् ॥१३॥ अर्थास्तद्गुणपर्ययास्तदनु तैर्द्रव्याणि चासंज्ञिता द्रव्यत्वेन हि पीततादिगुणभृद्वर्ण सुवर्ण यतः । . पर्यायत्वमियति बाहुवलयादेर्भूषणस्यापि यद् , ....
द्रव्यं तत्र घटामियर्ति परमब्रह्मैव तेभ्योऽपृथक् ॥१४॥ १०-तदी १.८३ । ११=तदी १.८३ । १२-१३=तदी १.८६, ८८ । १४ तदी १.८७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org