________________
ज्ञानचन्द्रोदयनाटकम ज्ञेयज्ञानज्ञायकैकान्तवृत्त्या वर्तिष्यन्ते ये स्वयं धाम तेषाम् । अत्युत्तालोच्छालवाचालवीचि स्वात्मद्रव्यं तच्चमच्चर्करोति ॥४४॥ मूर्तामूर्त सप्रदेशाप्रदेशं जाताजातं चापि पर्यायजातम् । वृत्तं वय॑द् वर्तमानं त्रिकालं जानीते यत् केवलज्ञानमेतत् ॥४५।। वल्गत्युद्दामधामप्रसरसरभसारम्भरम्भोरुलीलाशीलोन्मत्तप्रमीलारसवशसहजानन्दघूर्मायमाणः । जागावर्तगर्तागतविवरदरीध्वान्तविध्वंसनांशुस्फूर्नज्ज्वालाकलापस्फुटतरतरणिर्विश्वविश्वार्थदृश्वा ॥४६॥ जागर्ति ज्वलति द्रवत्यहरहः प्रोज्जृम्भते जृम्भतेऽत्युत्सर्पत्यवसर्पति प्रविलसत्युल्लासति स्वात्मनि । वल्गत्युच्छलति स्फुरत्युदयति स्फूर्जत्यनेकान्ततामानन्दामृतपूरपुर्णजलधावुन्निद्रमुन्मज्जति ॥४७॥ उदितमुदितमुच्चैरुच्चमुच्चावचान्तर्गतसकलविकल्पाचूलमूलंकषत्वम् । विदितविशदधामोद्दामचैतन्यतिः स्फुरति च निरवद्यानन्दविद्याविनोदी ॥४८॥ ये बाह्यार्थपरिग्रहव्यसनतानिर्द्वन्द्वरूपाः स्थिरस्वान्ताह्लादितशुद्धतत्त्वनियतानन्दोपलब्ध्यर्थिनः । तेषां चेतसि विस्फुरन्ति विलसद्ब्रह्मैकविद्याविदा प्रोणत्यो भुवि पद्मसुन्दरकवेः संदर्भिताः सूक्तयः ॥४९॥
इति परमात्मपूर्वरङ्गः पूर्णः । - इति श्रीज्ञानचन्द्रोदयनाटके परमात्मविवरणे
प्रथमोऽङ्कः परिपूर्णः ॥१॥ ४५-प्रसा १.४१, तदी १.४१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org