________________
१२०
ततो बभौ वाचकमौलिरत्नं धीमान्दयाधमंगणिर्दयालुः । दम्भूच्छ्रीशिवधर्मनामा सद्बाचनाचार्य गुणाद्भुतो वै ॥ १३ इष्ट तदीयौ हि विनेयमुख्यौ श्रीहर्षहंसाभिघरत्नवीरौ । वादोभवृन्दोद्धततारसिंहौ स्फुरद्गशेयौ गुणरत्नगेहौ ॥१४ जिताः समुद्राः गुरुभिर्मदीयैः ज्ञानं ददभिस्त्रिदशैरलभ्यम् । यहीयमानं सततं मुनिभ्यः प्रवर्धते चैत्र करोति मुक्तिम् ॥१५ तिरस्कृता स्वप्नमणिद्रुमाद्याऽनुभाववाराः प्रकटप्रभावाः । प्रकाशितच्छात्र सुबुद्धिवित्ता जीयासुरिद्धा गुरुतुष्टपादाः ||१६ श्रीमद्वाचकधुर्याऽनल्पधियां रत्नधीरसुगुरुणाम् । टीका मया प्रसादाद्विहिता ग्रन्थानुसारेण ॥१२७ संवद्विक्रमनृपतो विधुव सुरसशशिभिरङ्किते वर्षे । ज्ञानप्रमोदवाचकगणिभिरियं रचिता वृत्तिः ॥ १८ श्रीपतिसाहिपुङ्गवसिलेमसाहौ प्रवर्तमानेऽत्र । राज्ये नवकोपतेः श्रीगजसिंहस्य भूपस्य ॥ १९ चन्द्रार्कौ गगने यावद्यावत्पृथ्वी सभूधरा । वाग्भटालङ्कृतेर्वृत्तिर्जीयाजज्ञानप्रमोदिका ॥२०
वृद्धो मदीयशिष्यो गणिगणगुणनन्दनः सनन्दिजयः । गुणनन्दन गणिरलिखत् प्रथमादर्श प्रयत्नेन ॥२१
संवत् १६८१ वर्षे श्रीमद्बृहत्खरतरगच्छे भट्टारकश्री जिनराजसूरिविजयिराज्ये श्रीसागरचन्द्रसूरिसन्ताने पट्टानुक्रमसंजातरीहडगोत्रशृङ्गारश्रीमद्भाचनाचार्य रत्नधीरगविरविनेयानां वाचकज्ञानप्रमोदगणिभिर्विरचिता वाग्भटालङ्कारवृत्तिः समाप्ता । श्रेगे दिशन्तु ||
Jain Education International
ज्ञानप्रमोद गणिनिबद्धा
स्फुटं त्रीणि सहस्त्राणि श्लोकानां त्रिशतानि च । ग्रन्थमानमिदं ज्ञेयमत्र वृत्तौ सुनिशितम् ॥ १
संवत् १८४३ वर्षे ज्येष्ठशुक्लप्रतिपदितिथौ रविवारे लिखितेयं वृत्तिर्वाग्भटालङ्कारस्य गुणचन्द्र र्षिगाठ नहेतवे । श्रमकरवरान्तरा ॥ श्रीरस्तु |
पंजाबीगुरुश्री प्रेमविजयजीना शिष्य मुनिमानवि जयजिहेतवे ।
For Private & Personal Use Only
www.jainelibrary.org