________________
23
आचार्यविद्यानन्दिकृतं चार्वाकमतखण्डनम्
जैनदर्शनधुरंधरैः आचार्यविद्यानन्दिभिः अष्टसहस्त्री सत्यशासनपरीक्षादिग्रन्थेषु चार्वाकमतं पूर्वपक्षरूपेण संस्थाप्य तत्खण्डनं सयुक्तिकं कृतं दरीदृश्यते ।
विदितमेवैतत्सर्वेषामपि विद्वद्धौरेयाणां यत् चार्वाकाः 'प्रत्यक्षमेवैकं प्रमाणं' इति उद्घोषयन्तः अनुमानोपमानशब्दादिप्रमाणानि नाङ्गीकुर्वन्ति । यतो हि तेषां मते नाप्यागमस्तक वा प्रमाणभूतोऽस्ति परस्परविरोधादिदोषात । तैरुच्यते यत् 'तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः नैको मुनिर्यस्य वचः प्रमाणम् ' ' इति । चार्वाकविचारानुसारेण अनुमानप्रमाणेन निश्चयात्मकं ज्ञानं न भवितुमर्हति । अनुमानं तदैव निश्चयात्मकं स्त्रीयेत यदा अनुमानस्याचारभूतं व्याप्तिवाक्य असन्दिग्धं भवेद् सर्वविधरीत्या । परमेत्रं न दृश्यते । चार्वाकाणां प्रहारस्तु नैयायिकानां व्याप्तिवाक्यस्योपरि एव यत्र यत्र धूमः तत्र तत्र वह्निरिति । यत्र यत्र धूमस्तत्र तत्र वह्निरिति व्याप्तिवाक्यमिदं तदैव निःसन्दिग्धं भवेत् यदा विश्वस्याशेष धूमवत्पदार्थेषु वह्निव्यापकता प्रत्यक्षेण परीक्षिता स्यात् । परमेतदशक्यमेव । यतो हि विश्वस्य भिन्न-भिन्नक्षेत्रेषु यावन्तः धूमवत्पदार्थाः सन्ति तेषां सर्वेषां प्रत्यक्षीकरणमशक्यमेव । अतः एकस्मिन्नेव स्थले महानसे धूमरूपिलिङ्गमक्षिसात्कृत्य तदाधारेण सर्वत्रापि यत्र यत्र धूमस्तत्र तत्र वह्निरिति व्याप्तिवाक्यस्याङ्गीकारः औचितों नाञ्चति । अतः अनुमानस्याधारभूते मूलसिद्धान्तभूते च व्याप्तिवाक्ये दोषं सम्प्रदश्य अनुमानप्रमाणस्याप्रामाणिकता मुद्घोषयन्ति चार्वाकाः ।
आगमप्रमाणमपि अप्रामाणिक कोटिमाटीकते यतो हि शब्दप्रमाणे अनृतव्याघातपुनरुक्तिदोषाः परस्परविरोधादिदोषाश्च दृश्यन्ते । आगमा अपि नैकविधाः । तत्रैकमत्यं न दृश्यते । कस्यागमस्य प्रमाण्यमुररीकर्तव्यमिति शङ्का सदा वेविद्यते । यदि सर्वज्ञत्राक् प्रमाणमिति उच्यते चेद भिन्नभिन्नमतानुयायिनो स्वकीयमाचार्यमेव
1 महाभारत - उद्धृतोऽयं सत्यशासनपरीक्षायां विद्यानंदिभिः । सत्यशासन परीक्षा, संपादक - श्री गोकुलचन्द्र जैन, भरतीय ज्ञानपीठ, काशी, 1964, 9.15.
2 तत्रैव पृ 15.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org