________________
251
नैषधं विद्वदौषधम् शास्त्रेषु पटुत्वं तत्र-तत्र काव्येऽस्मिन् । काव्यस्यास्य गभीराथैप्रतिपादकतामनुलक्ष्यैव प्रसिद्धटीकाकारो विद्याधरः कथयति यत् श्रीहर्षेण काव्येऽस्मिन्नात्मनः सर्वज्ञता अभिव्यजिता । अतः सकलशास्त्रवि देव " काव्यस्यास्यान्तरगं ज्ञातुं प्रभवतीति ।
अयं विशेषगमनाईः विषयः यत् शास्त्रीयसिद्धान्तपरिपूर्णेऽपि काव्येऽस्मिन् काव्यात्म भूताः रसभावालङ्कारादयो न न्यक्कृताः। रसराजो शृङ्गारः प्रधानभूतोऽत्र । तत्र पूर्षेषु सप्तदशसर्गेषु विप्रलम्भं वर्णयित्वान्तिमेषु पञ्चसु सर्गेषु सम्भोगोऽवर्णितः । धीर:करुण146-रौद्र -हास्य14 B... भयानक 9--अद्भुत180--बीभत्सादयो181 रसाः शृङ्गारस्यैव परिपोषकरूपेण प्रतिपादिताः । उपमा- उत्प्रेक्षा-अतिशयोक्ति-श्लेषादयो सुप्रसिवाः सर्वेऽप्यलकारभेदाः समुपयुक्ताः सन्ति काव्येऽस्मिन् अनेन कविना । शब्दार्थश्लेषघटनायामनितरसाधारणपटुत्वमनेन प्रादर्शि' 8 नैषधे । काव्यसौन्दर्यापादको शब्दानुप्रासो18 सर्वत्रापि दरीदृश्यते । दीघदीर्घसमासादीनां यद्यपि क्वचित् क्वचि. दुयोगः कृतः तथापि वैदर्भारतिरेवानेन शृङ्गाररसानुगुणा शब्दानुप्रासैरुपस्कृता परिपालिता इति “धन्यासि वैदर्भि गुणे दारैर्यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरली करोति ।। 154 इत्यादिना अनुमातुं शक्यते । यद्यपि एतत् सत्यं यदियं वैदर्भीसरणिः कालिदासादिभिरनुसृतवैदाः वैलक्षण्यं भजते तथापि कवेरस्य वर्णनारीतिः वैदर्भीरीतिर्नास्तीति वक्तुं न शक्यते ।
शङ्गाररसप्रधानमपीदं काव्यं कालिदासादिकृति साधारणप्रसादाख्यगुणाभावातू अतिदुर्बोधत्वात् झटित्यर्थस्फूर्तेरनुदयाच्च क्लिष्टतादिदोषाणामाकरत्वेन निर्दिश्यते कैश्चित् साहित्यसमालोचकैः । कवेरतिव्युत्पत्तिशक्तिमजानाना एव वदन्त्येवमिति वक्तव्यं भवति । केवलं व्युत्पन्नमतय एव काव्यस्यास्य रसातिशयमास्वादयितुमर्हन्ति नान्ये । स्वयं कविरयमवबोधयति यत् यथा परमरमणी यूनामन्तःकरणमपहरति न तथा कुमाराणामेवमेव 144. अनेन सर्गेण श्रीहर्षकविराजेनात्मसर्वज्ञताभिव्यजिता । इतस्तत्सदृशेनान्येनाप्यस्य
सर्गस्यार्थरत्नाकरस्य पारं प्राप्तुं शक्यते -गैषधीयटीका-सप्तदशसर्गान्ते विद्याधरः । 145. नं.-1-7, 9, 10, 11, 15, 16, 142-143: III 25, V 79-80. 146. ने.-I-130, 136-139, 14 1- 142. 147. न.-XVII-84-85, 92, 95-96, 102' 143. नै -XII-21, 50, 106: XVI-110, XVII-114, 115. 149. न.-XI-21; XII-25, 28, 84; I-31, 34; VE-5, 10, 89; VIII-5; XIV-35;
XVI-123. 150. ने.-[-119, 129, 134; III-3; XII, 69, 71, XIV-70. 151. नै.-1-84, 86, 96. 152. नै.-VII-96; X-134; XIII-3, 11, 18, 25, 28, 34. 153. नै.-11-64, XIII-54, VIII--57, IX-51_XXI-162, XXII-27... 154. ने.-III-116.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org