________________
-१६
मीमांसक-भाट्टप्राभाकरशासन-परीक्षा १४. धर्मावेव। पूर्वापरभूतौ न धर्मिसामान्यमिति चेत् , कथं तदेवेदमित्यभेदप्रतीतिः, पूर्वापरस्वरूपयोरतीतवर्तमानयोः तदित्यतीतपरामर्शिना स्मरणेन इदमिति वर्तमानोल्लेखिना प्रत्यक्षेण च विषयीक्रियमाणयोः परस्परं भेदात् ।
$ १५. सदादिसामान्यादेकस्मात्तयोः कथंचिद्भेदाभेदप्रतिपत्तिरिति चेत्, सिद्धं तस्य कथंचिदनित्यत्वम् , अनित्यस्वधर्माव्यतिरेकात् । न ह्यनित्यादभिन्नं नित्यमेव युक्तम् , अनित्यस्वात्मवत् सर्वथानित्यस्य क्रमयोगपद्याभ्यामर्थक्रिया विरोधाच्च । तदनित्यं सामान्यं विशेषादेशात् शब्दवत् । तत एवानेकं तद्वत् । सदित्यादिस्वप्रत्ययाविशेषादेकं सत्तादिसामान्यमिति चेत् , न; सर्वथास्वप्रत्ययाविशेषस्या सिद्धत्वात् प्रतिपदादिव्यक्ति सदित्यादिप्रत्ययस्य 'विशेषात् । तद्व्यक्तिविषयो विशेषप्रत्यय इति चेत् ; तर्हि ता व्यक्तयः सामान्यात् सर्वथा यदि भिन्नाः प्रतिपद्यन्ते, तदा यौगमतप्रवेशो मीमांसकस्य, स चायुक्तः, तन्मते संबन्धस्यं निरस्तत्वात् , तस्येति व्यपदेशानुपपत्तेः ।
१६. अथ कथंचिदभिन्नाः, तदा सिद्धं सामान्यस्य विशेषप्रत्ययविषयत्वम् , विशेषप्रत्ययविषयेभ्यो विशेषेभ्यः कथंचिदभिन्नस्य सामान्यस्य विशेषप्रत्ययविषयतोपपत्तेः विशेषस्वात्मवत् । ततो नैकमेव सत्तादिसामान्यम् । नाप्यनंशम् ; कथंचित् सांशत्वप्रतीतेः; सांशेभ्यो विशेषेभ्योऽनर्थान्तरभूतस्य सांशत्वोपपत्तेः तत्स्वात्मवत् । तथा सर्वगतं तत् सामान्य व्यक्त्यन्तरालेऽनुपलभ्यमानत्वात् । तत्राभिव्यक्तत्वात्तस्यानुपलम्भ इति चेत् ; तत एव व्यक्तिस्वात्मनोऽपि तत्रानुपलम्भोऽस्तु । तत्र तस्य सद्भावादेकप्रमाणाभावादसत्त्वादेवानुपलम्भ इति चेत् , सामान्यस्यापि विशेषभावा दसत्त्वादेवानुपलम्भोऽस्तु, व्यक्त्यन्तराले तस्यापि सद्भावावेदकप्रमाणाभावात् , प्रत्यक्षतस्तथाननुभवात् , खरविषाणादिवत् । न हि भिन्नदेशासु व्यक्तिषु सामान्यमेकम्, यथा स्थूणादिषु वंशादिरिति प्रतीयते, यतो युगपदभिन्न देशस्वाधारवृत्तित्वे सत्येकत्वं तस्य सिद्ध्येत् , स्वाधारान्तराले अस्तित्वं साधयेदिति तदेवमनेकबाधकसद्भावात् भादृप्राभाकरैरिष्टं"
[ भद्रं भूयात् ]
१. अनित्यस्वात्मवत् । २. भेदात् । ३. यौगमते । ४. समवायस्य ।
1. धर्मादेव क०, ख० । 2. -मर्थविरोधाञ्च क०, ख०। ४. -षः स्यासिद्धस्यात् क०, ख० । 4. विशेषाभाव-क०, ख० । 5. युगपद् भिन्न ख० । 6. रन्तरालेऽपि क० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org