________________
श्रावकाचारकर्तृणां मंगल-कामना सर्वेऽपि सुखिनः सन्तु सन्तु सर्वे निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग भवेत् ॥ लोकोत्तमाः शरणमङ्गलमङ्गभाजामहद्विमुक्तमुनयो जिनधर्मकश्च । ये तान् नमामि च दधामि हृदम्बुजेऽहं संसार-वारिधिसमुत्तरणकसेतून् । स्यावादचिह्न खलु जैनशासनं जन्म-व्यय-ध्रौव्यपदार्थशासनम् । जोयात्रिलोकीजनशर्मसाधनं चक्रे सतां वन्धमनिन्द्यबोधनम् ॥ सद्दर्शनं निरतिचारमवन्तु भव्याः श्राद्धा दिशन्तु हितपात्रजनाय दानम् । कुर्वन्तु पूजनमहो जिनपुङ्गवानां पान्तु व्रतानि सततं सह शीलकेन ।
भूयासुश्चरणा जिनस्य शरणं तदर्शने मे रतिभूयाज्जन्मनि जन्मनि प्रियतमासङ्गादिमुक्ते गुरौ । सद्भक्तिस्तपसश्च शक्तिरतुला द्वेधापि मुक्तिप्रवा ग्रन्थस्यास्य फलेन किञ्चिदपरं याचे न योगैस्त्रिभिः ॥ शान्तिः स्याज्जिनशासनस्य सुखदा शान्तिनुपाणां सदा शान्तिः सुप्रजसां तपोभरभृतां शान्तिर्मुनीनां मुदा । श्रोतृणां कविताकृतां प्रवचनव्याख्यातृकाणां पुनः शान्तिः शान्तिरघाग्निजीवनमुचः श्रीसज्जनस्यापि च ॥ जीयाच्छोजिनशासनं सुमतयः स्युः धमाभुजोऽहंन्नताः सर्वोऽप्यस्तु निरामयः सुखमयो लोकः सुभिक्ष्यादिभिः । सन्तः सन्तु चिरायुषोऽमलधियो विज्ञातकाव्यश्रमाः शास्त्रं चेदममी पठन्तु सततं यावत्रिलोकोस्थितिः ॥
शब्दार्थोभयदुष्टं यद् व्यधाय्यत्र मया पवम् । सद्भिस्ततस्तदुत्सार्य निधेयं तत्र सुन्दरम् ॥
अनुवादकस्य क्षमा याचना अनुवादे च या काश्चित् त्रुटयः स्युः प्रमादतः । ममोपरि कृपां कृत्वा विद्वान्सः शोधयन्तु ताः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org