SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १७] पत इष्टोपदेशः चुका है । 'भोग और उपभोगके लिये धन साधन है' यह जो तुम कह रहे हो, सो भी बात नहीं है, यदि कहो क्यों ? तो उसके लिये कहते हैं आरम्भे तापकान् प्राप्तावतृप्तिप्रतिपादकान् । अन्ते सुदुस्त्यजान् कामान् कामं कः सेवते सुधीः ॥१७॥ अन्वय-आरम्भे तापकान् प्राप्ती अतृप्तिप्रतिपादकान् अन्ते सुदुस्त्यजान् कामान् कः सुधीः कामं सेवते। टीका-को, न कश्चित् सुधीविद्वान सेवते इन्द्रियप्रणालिकयाऽनुभवति । कान, भोगोपभोगान् । उक्तं च"तदात्त्वे सुखसंज्ञेषु, भावेष्वज्ञोऽनुरज्यते । हितमेवानुरुध्यन्ते, प्रपरीक्ष्य परीक्षकाः ॥" कथंभूतान्, तापकान् देहेन्द्रियमनःक्लेशहेतून् । क्व, आरम्भे उत्पत्त्युपक्रमे । अन्नादिभोग्यद्रव्यसंपादनस्य कृष्यादिक्लेशबहुलताया सर्वजनसुप्रसिद्धत्वात् । तहि भुज्यमानाः कामाः सुखहेतवः संभूतिसेव्यास्ते इत्याहप्राप्तावित्यादि । प्राप्तौ इन्द्रियेण संबन्धे सति अतृप्तेः सुत ष्णायाः प्रतिपादकान् दायकान् । उक्तं च "अपि संकल्पिताः कामाः, संभवन्ति यथा यथा। तथा तथा मनुष्याणां, तष्णा विश्वं विसर्पति ॥" तहि यथेष्टं भुक्त्वा तृप्तेषु तेषु तृष्णा संतापः शाम्यतीति सेव्यास्ते इत्याह-अन्ते सुदुस्त्यजान् । भुक्तिप्रान्ते त्यक्तुमशक्यकान् । सुभुक्तेष्वपि तेषु मनोव्यतिषङ्गस्य दुनिवारत्वात् । उक्तं च “दहनस्तृणकाष्ठसंचयैरपि, तृप्येदुदधिर्नदीशतैः । न तु कामसुखैः पुमानहो, बलवत्ता खलु कापि कर्मणः ॥" अपि च-"किमपीदं विषमयं, विषमतिविषमं पुमानयं येन । प्रसभमनुभूय मनोभवे भवे नैव चेतयते ॥" ॥४४॥ -अनगारधर्मामृते षष्ठोऽध्यायः । ननु तत्त्वविदोऽपि भोगानभुक्तवन्तो न श्रूयन्त इति कामान् कः सेवते सुधीरित्युपदेशः कथं श्रद्धीयत इत्याह-काममिति । अत्यर्थं । इदमत्र तात्पर्य चारित्रमोहोदयाद् भोगान् त्यक्तुमशक्नुवन्नपि तत्त्वज्ञो हेयरूपतया कामान्पश्यन्नेव सेवते । मन्दीभवन्मोहोदयस्तु ज्ञानवैराग्यभावनया करणग्रामं संयम्य सहसा स्वकार्यायोत्सहत एव । तथा चोक्तम् इदं फलमियं क्रिया करणमेतदेषः क्रमो व्ययोऽयमनुषङ्गजं फलमिदं दशेयं मम । अयं सुहृदयं द्विषन् प्रयति देशकालाविमाविति प्रतिवितर्कयन् प्रयतते बुधो नेतरः ।। -ज्ञानार्णवे पृ० ७६, -सागारधर्मामृते पृ० १० । किंच, यदर्थमेतदेवंविधमिति । भद्र यत्कायलक्षणं वस्तुसंतापाद्युपेतं कर्तुं प्रार्थ्यते तद्वक्ष्यमाणलक्षणमित्यर्थः । स एवंविध इति पाठः । तद्यथा अर्थ-आरम्भमें सन्तापके कारण और प्राप्त होने पर अतृप्तिके करनेवाले तथा अन्तमें जो बड़ी मुश्किलोंसे भी छोड़े नहीं जा सकते, ऐसे भोगोपभोगोंको कौन विद्वान्-समझदार-ज्यादती व आसक्तिके साथ सेवन करेगा? विशदार्थ-भोगोपभोग कमाये जानेके समय, इन्द्रिय और मनको क्लेश पहुँचानेका कारण होते हैं। यह सभी जन जानते हैं कि गेहूँ, चना, जौ आदि अन्नादिक भोग्य द्रव्योंके पैदा करनेके लिये खेती करनेमें एडीसे चोटीतक पसीना बहाना आदि दुःसह क्लेश हुआ करते हैं। कदाचित् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001477
Book TitleIshtopadesha
Original Sutra AuthorDevnandi Maharaj
AuthorShitalprasad, Champat Rai Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1986
Total Pages124
LanguagePrakrit, Sanskrit, Marathi, Gujarati, Hindi
ClassificationBook_Devnagari, Sermon, & Principle
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy