________________
श्रीवर्धमानजिनगीतिः॥
वन्दे वीरं गुणगम्भीरं
भववडवानलनीरं....
निष्कलमपि सकलं विकलङ्गं योगिवृन्दनासीरं
ध्यानगम्यरूपं जिनभूपं भवजलनिधिपरतीरम्... १ वेधसमखिलसुमङ्गलसृष्टे-टुरितरजोडणुसमीर
लोकोत्तरशुभमेधसमुच्चैः कुमतिक्षितितलसीरम्... २
विषयपित्तशमनं दोषाणां दमनं ननु गोक्षीरं
चारुदीप्तिभासितजगतीतल-त्रिभुवनमस्तकहीरम्...३
प्रकटितशुचिमङ्गलनिजशीलं विघटितकर्मकरीरं
वीरजिनेश्वरमहमतिधीरं वन्दे स्वर्णशरीरम्...
४
૬૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org