________________
NIOR
Saner
रागद्वेषौ रुजयत इतो हन्ति कामः प्रकामं
मोहोऽत्यर्थं तुदति सततं चैकतः शत्रुवन्माम्। त्रायस्वाऽतस्त्रिभुवनपते ! भीतभीतोऽहमद्य
त्वत्पादाब्जं शरणमगमं संश्रितानां शरण्यम् ॥३२॥ पारावारोत्तरणमनसो मानवा यानपात्रं
मार्गभ्रष्टा अभिरुचितपू: प्रापकं सार्थवाहम् । नानाव्याधिव्यथितवपुषः प्राप्य वैद्याधिराजं ।
मोमुद्यन्ते जिनवर ! यथा पिप्रियेऽहं तथा त्वाम् ॥३३॥ स्वामिन् ! दन्तावलघनघटा उत्कटा वाजिघट्टाः
स्थामप्रौढा विकटसुभटा: स्यन्दनाऽश्वाभिरामाः। भव्यं द्रव्यं कनकरजतं भूरि माणिक्यमुक्ता
राशिर्न स्युस्तव मतमृते दुर्गतित्राणहेतोः ॥३४॥ कामा ध्याता प्रवरमनसा विश्ववन्द्या न पादाश्चक्रे वा.................
(इदं स्तवनं मुद्रितपुस्तके अपूर्णमस्ति)
श्रीरामचन्द्रसूरिकृत: श्रीमुनिसुव्रतदेवस्तवः देवस्तनोतु हरितोत्पलकोशकान्तिः शान्तिं श्रियं च परमां मुनिसुव्रतो वः । यस्य क्रमाम्बुरुहमुद्गतचक्रचापमाश्रित्य कर्मजयिनः कति नाम नाऽऽसन् ? श्लाघ्यान्तरस्य विरहेण गिरां कवीन्द्राः । स्तोत्राणि ते जिन ! गृणन्ति शिवावहानि । यस्मात् तव स्तवनसम्भविना महिम्ना प्राप्तिः शिवस्य कृतिनां कियती फलाप्तिः तेषां गिरः खलु गिर: कविचक्रवाले ते नाम बिभ्रति यशःकुसुमावतंसम् । येषां मुखाम्बुरुहमुञ्चति वास्तवाय
वाग्देवता भगवती भवतः स्तवाय छह
॥१॥
॥२॥
॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org