SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ MACRO ॥४॥ ॥५॥ श्रीवज्रकुण्डलनृपो नगरेऽजनिष्ठाः पौराणनाम्न्यथ च पञ्चमकल्पवासी। श्रीवर्मभूपतिरुदग्रबलस्तु चम्पा - स्वामी ततस्त्वमपराजितमाजगाम ॥४॥ च्युत्वा ततो हरिकुले विपुलेऽवतीर्णः श्रीमत्सुमित्रनृपवंशविशेषकत्वम् । पद्माऽऽत्मजः प्रवरराजगृहे गरीयः पुण्याऽऽस्पदं जनिमहं तव तेनुरिन्द्रा: ॥५॥ आयुस्त्रिंशत् त्रिभुवनविभो ! वत्सराणां सहरत्रा देहोच्चत्वं तव जिनपते ! विंशतिः कार्मुकाणि । आद्यज्ञानत्रयपरिगतः श्यामवर्णाऽभिरामो राजन्वन्तं मगधविषयं कूर्मलक्ष्मा व्यधास्त्वम्। ६॥ उत्सृज्याऽन्तःपुरधनमहाराज्यराष्ट्रादिसर्वं प्रव्रज्य श्रागधिगतमनःपर्यवज्ञानशाली। हत्वा मोहाद्यरिकुलबलं सारस्वादैस्तपोभि र्लोकालोककलनकुशलं केवलं लेभिषे त्वम् ॥७॥ देहः स्वेदाऽऽममलविकलोऽतुल्यरूपः सुगन्धः श्वासः पङ्केरुहपरिमलः प्रोज्ज्वले मांसरक्ते। चर्माऽक्षाणामविषय इहाऽऽहारनीहारकृत्यं चत्वारोऽमी लसदतिशया जन्मनस्ते सहोत्थाः ॥८॥ देवादीनां समवसरणे संस्थितिः कोटिकोटे णीतिर्यग्नरसुरसदो बोधिदानप्रवीणा। अर्कज्योतिर्विजयविमलं देव ! भामण्डलं ते मौलेः पृष्ठे स्फुरति जगतो बाढमाश्चर्यकारि एकैकस्यां दिशि शतमितक्रोशमध्ये जनानां न स्युर्मारिभुवनभयदा स्वान्यचक्रोत्थभीतिः दुर्भिक्षोऽग्राऽऽमयभरमहावृष्ट्यवृष्टीति वैरं स्वामिन्कर्मक्षयसमुदिता एवमेकादशैते ॥१०॥ ॥९॥ Des छा खबर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001467
Book TitleMunisuvratJina Vandanavali
Original Sutra AuthorN/A
AuthorVijayanandsuri Smarak Trust Ahmedabad
PublisherVijayanandsuri Smarak Trust Ahmedabad
Publication Year2000
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy