SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ (१५) विषयः श्लोकाः पृष्ठम् इतः कृष्ण-रुक्मिण्योर्बालमदृष्ट्वा महादुःखं, तदा नारदस्य तत्राऽऽगमनमुद्वेगकारणपृच्छा, पुत्रहरणं ज्ञात्वा सीमन्धरस्वामिपावें तच्छुद्ध्यर्थं गमनं, प्रभुणा तस्य हरणाद्युदन्तकथनं, नारदस्य तत्पूर्वजन्मपृच्छा, प्रभुणा तत्कथनम् | १३९-२२४ ९१-९३ षोडशाब्दान्ते तस्य मात्रा सह सङ्गमो भविष्यतीति सीमन्धरस्वामिवचः श्रुत्वा 'केन कर्मणा रुक्मिण्या पुत्रवियोगः प्राप्त' इति नारदपृच्छा २२५-२२८ | ९३ तदा प्रभुणा 'तया पूर्वभवे मयूराण्डं घटिकाषोऽशकं यावत् तन्मात्रा वियोजित' मिति तथा 'जाते मयूरे सोऽपि तया तन्मात्रा षोडश मासान् वियोजित' इति 'तया षोडशाब्दिकं पुत्रवियोगकृत् कर्म बद्ध'मिति कथनम् २२९-२५७ ९३-९४ तच्छ्रुत्वा नारदस्य संवरखेचरपार्वे गमनं तत्र प्रद्युम्नस्य दर्शनं च, ततो द्वारिकां गत्वा कृष्णादीनां पुत्रोदन्तकथनं, रुक्मिण्यै च पूर्ववृत्तकथनं, तच्छ्रवणेन रुक्मिण्याः स्वस्थत्वम् २५८-२६३ हस्तिनापुरे धृतराष्ट्र-पाण्ड्वोर्वंशस्य परिवारस्य च वर्णन २६४-२७४ ९४-९५ काम्पील्यपुरे द्रुपदराजेन स्वपुत्र्या द्रौपद्याः स्वयंवरायोजन, दशाह-राम-कृष्ण-दमदन्त-शिशुपाल-रुक्मिकर्ण-सुयोधनादिभ्य आमन्त्रणं, पाण्डुराजायाऽपि पञ्चभिः पुत्रैः सहाऽऽमन्त्रणं, तेषां च गमनम् । २७५-२८१ ___ ९५ स्वयंवरमण्डपे चाऽऽगतया द्रौपद्या पञ्चानामपि पाण्डवानां कण्ठेषु युगपत् स्वयंवरमालाप्रक्षेपणं, दृष्ट्वैतत् सर्वस्य राजमण्डलस्याऽऽश्चर्य, तावता तत्र कस्यचिच्चारणर्षेरागमनं, सर्वैः पृष्टेन तेन तत्कारणकथनम् मुनिना द्रौपद्याः पूर्वभवकथनं, निदानवशादत्राऽस्याः पञ्च पतयः, इत्येवं चारणर्षेः पार्वात् श्रुत्वा कृष्णादीनां सन्तोषः, ततः सोत्सवो विवाहः, पाण्डुना च सर्वेषां राज्ञां दशाह-राम- कृष्णानां च स्वपुरे नीत्वाऽर्चनम् २८२-३५९। ९५-९७ युधिष्ठिराय राज्यं दत्त्वा पाण्डोर्मृत्यु, माड्रा अपि तदनुयायित्वं, दुर्योधनेन पाण्डवान् द्यूते जित्वा राज्यग्रहणं, पाण्डवानां च राष्ट्रान्निर्वासनं, कुन्त्या द्रौपद्या च सह तेषां द्वारवतीगमनम् ३६०-३७२ कृष्णेन कुन्त्यै तत्सुतेभ्यश्च पृथक् पृथक् प्रासादार्पणं, दशाहश्च पञ्चभ्योऽपि पाण्डवेभ्यो निजकन्यकादानम्, ३७३-३७८ यौवने वर्तमानं प्रद्युम्नं प्रेक्ष्य तत्पालकमातुः कनकमालाया आसक्तिः, तया च प्रद्युम्नाद् भोगयाचनं, प्रद्युम्नेन निषिद्धे च तया सद्भावकथनं, तस्मै गौरी-प्रज्ञप्तिविद्ययोर्दानं, तेनाऽपि च द्रुतमेव तत्साधनं; तत: पुनस्तया भोगार्थं प्राथिते तस्य 'त्वं मे माताऽऽचार्या चेति न वाच्योऽहमत्र पापे त्वये'ति कथनं नगराद् बहिर्गमनं च ३७९-३९६ ९८ कनकमालया तस्मिन् मिथ्याकलङ्कारोपणं, तत्सुतानां प्रद्युम्नेन हननं, तेन कुपितस्य संवरस्य प्रद्युम्नेन पराभवनं तस्मै च यथातथं कथनं, नारदागमनं, तस्मै च प्रद्युम्नेन कनकमालावृत्तकथनम् ३९७-४०४ ९८ नारदेनाऽपि तस्मै सीमन्धरजिनोदितवृत्तकथनं, रुक्मिणी-सत्यभामयोः केशदानपणादिकथनं च, सनारदस्य प्रद्युम्नस्य प्रज्ञप्तिनिर्मितेन विमानेन द्वारिकागमनम् ४०५-४०९ ९८-९९ प्रद्युम्नेन तत्र चमत्काराणां करणं, भामासुतस्य भानुकस्य खिलीकरणम् ४१०-४२४ मायया सत्यभामाया अपि शिरोमुण्डनादिकरणम् ४२५-४४४ ९९-१०० बालसाधुरूपेण प्रद्युम्नस्य रुक्मिणीगृहे गमनं, कृष्णसिंहासने चोपवेशनं, कृष्णनिमित्ते सिद्धानां - सर्वेषां मोदकानां खादनं रुक्मिण्याश्च विस्मयः ४४५-४६६ १०० भामया रुक्मिणीकेशग्रहणाय दासीप्रेषणं, प्रद्युम्नेन च तासामेव दासीनां मुण्डनेन केशप्रेषणं, कुपितया भामया हरये केशदापनाय प्रेरणं, हरिणा रामे प्रेषिते प्रद्युम्नेन कृष्णरूपकरणं, तेन लज्जितस्य रामस्य सभामागत्य कृष्णं दृष्ट्वा तत्कथनं, कृष्णस्य शपथपूर्वकं गमननिषेधः, कुपितायाश्च भामाया स्वगृहे गमनं, इतो नारदेन रुक्मिण्यै 'प्रद्युम्नोऽयं, तव सुत' इति कथनम् ४६७-४८२ १००-१०१ तदा च प्रद्युम्नेन निजरूपे प्रकटिते रुक्मिण्या हर्षावेगः, प्रद्युम्नस्य पितुः किञ्चिदाश्चर्यदर्शनाय रुक्मिणीहरणं विद्याबलेन चमूभङ्गपूर्वं च कृष्णस्य निरायुधीकरणं, नारदेन कृष्णाय 'ते सुत' इति तथ्यकथनं, कृष्णस्य महान हर्षः, सुतेन रुक्मिण्या च सह नगरप्रवेशः ४८३-४९३ १०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy