SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसडग्रहणी शब्दापाती हरिवर्षे विकटापाती रम्यके गन्धापाती हैरण्यवते माल्यवानिति व्यवस्थेत्यत्र तत्त्वं पुनः केवलिनो विदन्ति । अथ चतुस्त्रिंशदायतवैताढया व्याख्यायन्ते । तत्र प्रथमो वैताढयो भरतमध्ये पूर्वपश्चिमायत उत्त'दक्षिणविस्तीर्णः पञ्चविंशनियोजन च्चः रूप्यमयः स्फटिकवन्निमलः पश्यतां प्रतिबिम्बधारकत्वात् प्रतिरूमोऽस्ति । तस्य वैताढयस्य पूर्वपश्चिमयोर्दिशोगङ्गासिन्ध्वन्तिके एकपल्यायुष्कनृत्यमालकृतमालदेवाधिष्ठिते दक्षिणोदोच्योः पञ्चाशद्योजनायते प्राचीप्रतीच्योदिशयोजनविशाले अष्टयोजनोच्चे अष्टयोजनोच्चचतुर्योजनविशालबज्ररत्नमयनिबिडद्वारावृत्ते वज्ररत्नमयनिबिडखण्डप्रपातातमिस्राभिधे गुहे स्तोऽन्धकारनिरन्तरे । तत्र चक्रवर्ती दक्षिणार्धभरतात् सिन्ध्वन्तिकस्थतमिस्रागुफायामेकोनपञ्चाशन्मण्डलान्यालिख्योत्तरार्धभरतं प्रविश्य संसाध्य च निवर्तमान ऋषभकूटे स्वनाम लिखित्त्वा गङ्गान्तिकस्थखण्डप्रपातातो निर्गत्य दक्षिणार्धभरतमागच्छति । यावच्चक्रवर्ती जीवन्नास्ते तावत्तयो गणि उद्घाटितानि स्युः । एतयोरन्तराले प्रत्येकं उन्मग्नजलानिम्नगाजलाभिधे द्वे द्वे नद्यौ भवतः । उभेऽपि ते प्रत्येकं द्वादशयोजनायामे त्रित्रियोजनविशाले । तत्रोन्मग्नजलायां यत्किञ्चिदृषदिन्धननरादिकं निपतति तत्सर्व जलप्रवाहैराहत्य बहिः स्थले प्रक्षिप्यते । निम्नगायां यत्किञ्चित् तृणादिकं निपतति तत्सर्वमध एव निमजति । एनयोरीहक्खभाव एव तत्र कारणं, नान्यत् किश्चिद् । इति वैताढयगुहावर्णनम् । _अत्र वैताढये वैतादयगिरि कुमारनामा महर्धिकः पल्यायुष्कः सुरः सन्तिष्ठते । अतस्तन्नाम शाश्वतम् । इति भरतवैताढयवर्णनम् । अत्र भरतवैतादयनगस्यान्तरे वक्ष्यमाणस्वरूपा विद्याधराभियोगानां श्रेणयः सन्ति । तत उपरिष्ठाभियोगश्रेणित ऊर्ध्वं पञ्चानां योजनानामतिक्रमेऽस्योपरिभागः । आकृतिश्चैषा १० यो. आभियोगिक दैवानांश्रेणिः AMMA ५ यो. द्वितीय मेखला १० यो. १० यो. द्वितीय मेखलायां आभियोगिक देवानां श्रेणिः । 1१० यो. विद्याधरश्रेणिः यो. HAMAN H/ 4 AWWAAS aumau प्रथम मेखला १०यो. AAY१०यो. EEN उच्यत्य २५ यो. ॥ वैताढय गिरेः पार्श्वदर्शनं ।। ५० यो. विस्तृति : चित्राङ्कः १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy