________________
सटीकजंबूद्वीपसडग्रहणीं
नामान्तर्नदी । तत आवर्ताख्यो विजयः पञ्चमः । तन्मर्यादाकृन्नलिनीनामवक्षस्काराचलः । तदनुष्ठा मङ्गलावत्ताभिधो विजयः । तत्पूर्वतो सीमाकारिणी वेगवती नामान्तर्नदी । तस्याः परतः पुष्कलाख्यो विजयः सप्तमः । तन्मर्यादाकारी एकशैलकूटो नगः पुष्कलावती विजयः अष्टमः सर्वसत्तमः । ततः परं वनमुखम् । एवं शीताया उत्तरतटेऽपि अन्तर्नदीवक्षस्काराचलान्तरिता अष्टौ विजयाः । एवं दक्षिणतटेऽपि, तत्र प्रथमं वनमुखं, तत्प्रतीच्यां वत्सनामा नवमो विजयः । तत्पश्चिमान्ते त्रिकूट: सीमाकारी वक्षस्काराचलः । ततः सुवत्साभिधो दशमो विजयः, तस्य सीमाविधात्री तप्ता संज्ञान्त दी। तदनु महावत्सनामैकादशो विजयः तस्य मर्यादायां वैश्रमणकूटो नगः । ततः परं वत्सावती द्वादशो विजयः । तस्य मर्यादायां मत्ता नदी । ततः प्रत्यग्र रम्याख्यो विजयस्त्रयोदशः । तस्य प्रतीच्यन्तेऽजनाद्रिः सीमाविधायी । ततः रम्यक्नामा चतुर्दशः, तन्सीमनि उन्मत्ता नामसरित् । तस्याः परतः रमणीयको विजयः पञ्चदशः । तस्य सीम्नि मातञ्जननामा नगः ततः प्रत्यग् मङ्गालावती षोडशो विजयः । इत्येवं पूर्वविदेहेषु षोडश विजयाः । तस्य च मर्यादायां सौमनसाभिधो गजदन्तो नगः । ततः पश्चिमत: देवकुरवः । तदनु विद्युत्प्रभनामा गजदन्तो नगः । ततः परं पक्ष्मनामादिमो विजयः तत्सीमाकार्यङ्कापाती धरणीधरः । ततः सुपक्षमाख्यो द्वितीयो विजयः, तन्मर्यादायां क्षीरोदाख्यनदी । ततः प्रत्यग् महापक्ष्माख्यस्तृतीयो विजयः । तदन्ते पक्ष्मपाती भूधरः । तदनु पक्ष्मापाती चतुर्थी विजयः । तत्सीमाविद्यायिनी शीतस्रोता नामसरित् । तस्याः पश्चिमत: शडखाभिधः पञ्चमो विजयः तन्मर्यादाकारक आशीविपाचलः । तदग्रतो नलिनो नामा षष्ठो विजयः तत्सीमनि अन्तर्वाहिनी नामनदी । तत्पश्चिमतः कुमुदाभिधः सप्तमो विजयः तत्सीमाविधायी सुखावहो नामा नगः । परं नलिनावती नामाष्टमो विजयः । ततः परं वनमुखम् । इति शीतोदादक्षिणकूलसंस्थितविजयाष्टकम् । शीतोदोत्तरतटगं प्रथमं वनमुख, ततः परं विजयो वप्रनामा नवमः । ततः प्राच्यन्ते सीमाकारी चन्द्राख्यो वक्षस्कारगिरिः तदनु दशमः सुवप्राभिधो विजयः तन्मर्यादायां नदी नामोमिमालिनी । तत्पूर्वान्ते महावप्र एकादशो विजयः । तदन्ते गम्भीरमालिनी नदी सीमाविधायिनी । ततस्त्रयोदशो वल्गुनामा विजयः । ततः सीमनि नागनामा नगः । तदनु सुवल्गुनामा चतुर्दशो विजयः । तदन्ते मर्यादाकारिणी फेनमालिनी नामसरित् । ततः पूर्वान्ते गन्धिलो नामा पञ्चदशो विजयः तत्सीमाकारी देवनामगिरिः । ततः परं गन्धिलावती नामा षोडशो विजयः इत्येवमपरविदेहेषु षोडश विजयाः। ततश्च गन्धमादनाख्यो गजदन्तगिरिः सीमाविधायी। ततः परा उत्तरकुरवः । इति महाविदेह चतुर्विभागस्थितिः ।
उत्तरकुरुस्वरूपं चेदम् । इमे च उत्तरदझिंगविष्कम्भाः पूर्वपश्चिमायता: अर्धचन्द्रमण्डलाकारा भूभामिनीभालनिभाः । अत्र चोत्तरकुरुनामा देवो वसति । अतस्तन्नामानस्ते प्रतीताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org