________________
सटीकजंबूद्वीपसङग्रहणी
कुर्वाख्याः षडकर्मभूमयः । तथाऽत्र जंबूद्वीपे षड्वर्षधरपर्वताः, महाविदेहतो दक्षिणदिशि हिमवन्महाहिमवन्निषधाख्यास्त्रयः, उदग्दिशि च शिखरिरुक्मिनीलवदभिधास्त्रयः इति । तत्र हिमवच्छिखरौ च तुल्यरुपावमिहितौ महाहिमवद्रुक्मी च मिथः समो, निषधनीलवन्तौ समस्वरूपाविति । लोकमध्यनाभिः मेरुनिरुपम एकश्च । भरतैरवतद्वात्रिंशद्विजयेषु च प्रत्येकमेकैको वैताढयस्तथा चैते चतुस्त्रिंशत् । सर्वेऽप्येते रूप्यरूपाः । एवमिह चत्वारो वृतवैताढयाः मिथस्तुल्यरूपाः, हैमवतहरिवर्षहरण्यवतरम्यकस्थाः शब्दापातिगन्धापातिविकटापातिमाल्यवदाख्याः । तत्र हैमवते शब्दापाती, हरिवर्षे गन्धापाती, हैरण्यवते विकटापाती, रम्यके च माल्यवानिति । एवमत्र देवोत्तरकुरुस्थेषु दशसु हृदेषु प्राच्या प्रतीच्यां च प्रत्येकं दशदशकाञ्चनाचलाः । सर्वेऽप्येते समस्वरूपाः, एवञ्चैते द्वेशते काञ्चनगिरयः । एवं उत्तरकुरुसीमाविधायिनौ गन्धमादनमाल्यवदाख्यौ पीतरत्नतपनीयजौ द्वौ गजदन्तौ । एवं देवकुरुसीमाकारिणावपि सौमनसविद्युत्प्रभाभिधौ रूप्यवैडूर्यमयौ गजदन्तौ । विजयान्तरिताः चित्रकूट १ ब्रह्मकूट २ नलिनीकूटै ३ कशैलकूट ४ त्रिकूट ५ वैश्रमणकूटा ६ जन ७ मातञ्जना ८ ड्कापाति ९ पक्ष्म (पद्मा) पात्या १० शीविष ११ सुखावह १२ चन्द्र १३ सूर १४ नाग १५ देवा १६ भिधाः षोडशवक्षस्कारधराधराः । ननु विजयान्तरास्तु अष्टाविंशतिर्भवन्ति, तत्कथं पोडशेति चेत्सत्यं, शेषेषु द्वादशस्वन्तरेषु अन्तर्नदीनां भावात् । तथाहि पूर्वविदेहेषु अपाक्काष्ठायां प्रथममेको विजयस्ततो वक्षस्कारस्ततो विजयस्ततोऽन्तनदी ततो विजयस्ततो वक्षस्कारस्ततो विजयस्ततोऽन्तनदी ततो विजयस्ततो वक्षस्कारस्ततो विजयस्ततोऽन्तर्नदी ततो विजयस्ततो वक्षस्कारस्ततो विजयः इत्ये. वमष्टौ विजयास्तिस्रोऽन्तनद्यः चत्वारश्च वक्षस्काराः । एवं पूर्वावदेहेषूदगाशायामपि तावन्तो विजयास्तावन्त्योऽन्तनद्यस्तावन्तश्च वक्षस्कारनगाः । तथैव सर्वं अपरविदेहेष्वप्यवसेयम् । तथा च द्वात्रिंशद्विजयाः द्वादशान्तनद्यः षोडश च वक्षस्कारा इति सिद्धं । एवं देवकुरुषु शीतोदापूर्वा परकूलयोश्चित्रविचित्राभिधौ धरणीधरौ समस्वरूपौ। एवमुत्तरकुरुषु शीतापूर्वपश्चिमकूलयोर्यमकसम. काभिख्यावचलावपि तुल्यरूपौ । एवमेते षड्वर्षधरा ६ एको मेरुः १ चतुस्त्रिंशदायतवैतायाः ३४ च स्वारो वृत्तवैताढया ४ द्वेशते काञ्चनाचलाः २०० चत्वारो गजदन्ताः ४ षोडश वक्षस्कारा १६ द्वौ चित्रविचित्रौ २ द्वौ यमकसमको २ चेति ।
" एकोनसप्तत्यधिके द्वेशते च धराधराः ।
इह द्वीपे त्वभिहिता, भव्येभ्यो विश्ववेदिभिः ॥१॥" अथेह आयतेषु चतुस्त्रिंशति वैताढयेषु प्रत्येकं नवनवकूटान्याख्यातानि । सर्वसाढ्यया . षडुत्तराणि त्रीणि शतानि कूटानां वैताढथेषु । एतेषु मध्यं कूटत्रयं सुवर्णमयं, शेषाणि तु रत्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org