________________
पावकीर्तिविरचिता
राजगृहे राजा चन्द्ररथः । तस्य द्वे भार्ये । तयोः पुत्राभावादीश्वराराधनं कृतम् । तेन च तुष्टेन तस्मा औषधगुटिका एका दत्ता । या इमां भक्षयति तस्याः पुत्रो भविष्यति इति । तां गृहीत्वागतेन राज्ञा चिन्तितम् । यद्येकस्यै दीयते अपरा दुःखिनी भाविनी इति द्वावंशौ कृत्वा उभाभ्यां दत्तवान् । तयोर्गर्भे स्थिते नवमासावसाने प्रसूतौ सत्याम् उभयोः पुत्रस्यार्धद्वयं जातम् । महेश्वरेण दत्तोऽप्येवंविधः पुत्रः किं क्रियते । अप्रयोजकत्वात् अर्धद्वयं श्मशाने निक्षिप्तम् । तत्र गोमयं गृह्णन्त्या जरासंज्ञया वनितया मेलापितम् । ततो जरासन्धनामासुरो जात इति ।
३७४
तथान्यापि - ईश्वरस्य गौर्या सह दिव्यवर्षसहस्राननवरतं क्रीडाकरणे देवा यद्येवं विधायां क्रीडायां पुत्रो भविष्यति, स महानसुरो भविष्यतीति सचिन्ता बभूवुः । इति सर्वैः पर्यालोच्य गौरीभ्राताग्निः प्रार्थितः । त्वं महेश्वरसुरतगृहं गच्छ, येन सा लज्जयोत्याय गच्छतीति प्रार्थनावशात् गतः । सा तं दृष्ट्वोत्थिता । तदनु कुपितो हरः भगति । हे निकृष्टवीर्य, क्षरणावसरे किमित्यागतोऽसि । इदानीं किं भूमौ पातो विधीयते । स्वमुखं प्रसारय । नो चेत् त्वं जानासीति तजिते प्रसारितं तेन । तत्र तत्पातयति स्म । तदुक्तम् ।
रेतसा यदि रुद्रेण तपितो हव्यवाहकः । मानवस्तन्न कर्तव्यं न दैवचरितं चरेत् ॥ इति ।
तत्सामर्थ्यमसहमानः कुष्ठी जातो ऽनलः । एकस्मिन् ग्रामे गङ्गादयः षड् ब्राह्मणपुत्रयो ग्रुपासनं कुर्वन्त्यः स्थिताः । तासामङ्गं दृष्ट्वा तत्र क्षिप्तम् । षण्णां षडंशा उत्पन्नाः । तत उद्याने निक्षिप्ताः केनचिन्मेलापिताः । ततः षण्मुखः संजात इति । एताः सर्वाः कथाः सन्ति नो वा । सत्यं सन्ति । तहि शिरस्सु छिन्नेष्वपि रावणस्य जीवनम् । भिन्नपुरुषकबन्धे दधिमुखशिरस्संधानम् । अन्यत्रोत्पन्नानामंशानां संधानं चोचितं न मम जीवनं संधानं चेति कथमुचितम् ॥
भवत्वेतत्सर्वम् । कथं दूरस्येन शिरसा भक्षितेषु फलेषु उदरं तृप्यति । किं भवदागमे नास्ति । नास्ति । त्वया ज्ञायते चेत् कथय । कथयामि ।
Jain Education International
मत्स्यः प्रीणाति द्वौ मासौ त्रीन् मासान् हरिणो मृगः । शकुनिश्चतुरो मासान् पञ्च मासांच हूरवः ॥ शशः प्रीणाति षण्मासानश्वः सप्त तु एव च । अष्ट मासान् वराहेण मेषो मासान्नवैव च ॥ महिषो दश मासांश्च पशुरेकादशः स्मृतः । संवत्सरं तु गर्भिण्यां पशूनां पायसेन वा ॥
1
_इति वचनात् । इह मत्स्यादिमांसे ब्राह्मणेभ्यो दत्ते सति स्वर्गस्थाः पितरः कथं तृप्यन्ति । तैरवादि । ब्राह्मणानां मुखमाहात्म्यात् । तेनोक्तम् । कोऽयं ब्राह्मणो नाम । कि शरीरम् । कि जातिः । किं जीवः । कि कुलम् । किं योनिः । किं ज्ञानम् । कि शौचाचारः । किं तपः । कि संस्कारः । इति गत्यन्तराभावात् । न तावत् शरीरम् । क्षत्रियादीनां साधारणत्वात् । किं च मृतस्य ब्राह्मणस्य शरीरदहने बन्धूनां ब्रह्महत्यादिरपि स्यात् । तथा जातिरपि ब्राह्मणो न भवति । तस्या अपि साधारणत्वात् । सा साधारणेति कथं ज्ञायते । यथा गोमहिष्यादीनां परस्परं गमने ऽपत्यादर्शनात्तद्भेदो ज्ञायते । न तथा चाण्डालब्राह्मणादीनां भेदः । परस्परं गमने गर्भदर्शनात् ।
For Private & Personal Use Only
www.jainelibrary.org