________________
१४
सारसोमप्पहार - विरइय सूनुस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमता -
मुत्तंसः कविचक्रमस्तकमणिः श्री सिद्धपालोऽभवत् । यं व्यालोक्य परोपकारकरुणासौजन्यसत्यक्षमा--
दाक्षिण्यैः कलितं कलौ कृतयुगारम्भो जनो मन्यते ॥३७०५।। तस्य पौषधशालायां पुरेऽणहिलपाटके । निष्प्रत्युहमिदं प्रोक्तं पदार्थान्त (?)......... ॥३७०६।। अनाभोगात्किञ्जित्किमपि मतिवैकल्यवशतः
किमत्यौत्सुक्येन स्मृतिविरहदोषेण किमपि । मयोत्सूत्रं शास्त्रे यदिह किमपि प्रोक्तमखिलं
क्षमन्तां धीमन्तस्तदसमदयापूर्णहृदयाः ॥३७०७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org