________________
व ज्जा ल गं
सव्वन्नुवयणपंकयणिवासिणिं पणमिऊण सुयदेवि।
धम्माइतिवग्गजुयं सुयणाण सुहासियं वोच्छं ॥१॥ 2) अमयं पाइयकव्वं पढिउं सोउं च जे न जाणंति ।
कामस्स तत्तवत्ति कुणंति ते कह न लज्जंति ॥२॥ 3) विविहकइविरइयाणं गाहाणं वरकुलाणि घेत्तण।
रइयं वज्जालग्गं विहिणा जयवल्लहं नाम ॥३॥
1) [सर्वज्ञवदनपङ्कज निवासिनीं प्रणम्य श्रुतदेवीम् । धर्मादित्रिवर्गयुतं सुजनानां सुभाषितं वक्ष्यामि ॥] श्रीगुरुर्जयति । प्राकृतसुभाषितावल्या विद्यालयस्य छाया लिख्यते । तत्र शास्त्रस्यादौ श्वेताम्बरशिरोमणिर्जयवल्लभो नाम कविः संस्कृते निष्प्रतिभं तथा च शृङ्गारिणं जनमवलोक्य, आत्मना संस्कृतपारंगतोऽपि प्राकृनगाथासंग्रह मिमं चकार । तत्राप्याद्यायां गाथायां विनप्रोत्सारणाय निजममुचित देवतां गाथापूर्वार्धन, उत्तरार्धेन चाभिधेयं बते । अहं कविः श्रुतदेवतां सरस्वती प्रणम्य सुभाषितं वच्मीति संबन्धः । किंविशिष्टां श्रादेवताम् । सर्वज्ञो जिनः, तस्य बदनपङ्कज निवासिनीम् । 'किंविशिष्टं सुभाषितम् । धर्मादि त्रिवर्गयुतम् । धर्मार्थकामानां त्रिवर्गः, तद्युतम् । इह सुभाषितमिति जातावेकवचनम् । यथा निष्पन्नो यव इति । तेन सुभाषितानि वच्मीत्यर्थः । केषाम् । सुजनानां सज्जनानां विदुषामिति यावत् ॥ १ ॥
2) [ अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च ये न जानन्ति । कामस्य तत्त्ववातां कुर्वन्ति ते कथं न लजन्ते ॥] ते पुरुषाः कथं न लज्जन्ते। ते क इत्याह । ये अमृतम् अमृतमयं प्राकृतकाव्यं पठितुं श्रोतुं च न जानन्ति । तत्रापि कामस्य तत्त्ववार्ता कुर्वन्ति । ते कथं न लज्जन्ते। अयं भावः । प्राकृतकाव्यमजानानाः कामतत्त्ववार्ता निर्लज्जा एव कुर्वते, नेतरे ॥ २ ॥
3) [ विविधकविविरचितानां गाथानां वरकुलानि गृहीत्वा । रचितं व्रज्यालग्नं विधिना जयवल्लभं नाम ॥] विविधकविविरचितानां गाथानां चरकुलानि । कोऽर्थः। गाथावृन्दम् । गृहीत्वा वज्जालयं विरचितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org