________________
-214*51 वाहवज्जा
२३१: 214*3) न तहा पइमरणे घि हु रुपणं वाहीइ निम्मरकंठं ।
जह पल्लिसमासन्ने गईदगलगजियं सोउं ॥३॥ 214*4) पल्लिपएसे पज्जूसणिग्गयं लुलियकुंतलकलावं ।
दहळूण वाहवंदं दंतकइया नियत्तति ॥४॥ 214*5) अच्छउ ता करिवहणं तुह तणुओ धणुहरं समुल्लिहइ ।
थोरथिरथणहराणं किं अम्ह माहप्पं ॥५॥
ज्ञातम् । किंविशिष्टया व्याध्या । कुलगृहात् पितृगृहादागच्छन्त्या । काभिः । गजमदकपोलनिघर्षणमलमलिनकरञ्जशाखाभिः । गजानां मदेन कपोलनिघर्षणेन मलमलिनकरञ्जशाखा यत्र ता गजमदकपोलनिघर्षणमलमलिनकरञ्जशाखाः । ताभिः ।। २१४*२ ॥
214*3) [ न तथा पतिमरणेऽपि खलु रुदितं व्याध्या निर्भरकण्ठम् । यथा पल्लीसमासने गजेन्द्रगलगर्जितं श्रुत्वा ॥] व्याध्या तथा पतिमरणेऽपि हु निश्चितं निर्भरकण्ठं यथा भवति तथा न रुदितम् । यथा पल्लीसमासन्ने गजेन्द्रगलगर्जितं श्रुत्वा । भर्तरि मरणं ( ? भर्तृमरणं) स्मृतिपथमागतम् । अयं भावः ॥ २१४*३ ॥
214*4) [ पल्लीप्रदेशे प्रत्यूषनिर्गतं लुलितकुन्तलकलापम् । दृष्टा व्याधवृन्दं दन्तक्रयिका निवर्तन्ते ।। ] दन्तक्रेतारो वणिजो निवर्तन्ते । किं कृत्वा । व्याधवृन्दं दृष्टा । किंविशिष्टं व्याधवृन्दम् । पल्लीप्रदेशे प्रत्यूषनिर्गतम् । पुनः किंविशिष्टं व्याधवृन्दम् । लुलित कुन्तलकलापं विसंष्ठुलकेशसमूहम् ।। २१४*४ ।।
214*5) [ आस्तां तावत् करिवधनं तव तनुजो धनुर्हरें (१) समुल्लिखति । स्थूल स्थिरस्तनभराणां किमस्माकं माहात्म्यम् ।।] किरातवधूः श्वश्रू प्रति वक्ति । हे श्वश्रु करिवधनं तावत् तिष्ठतु । तव तनयो धनुर्हरं (?) धनुः समुल्लिखति तक्ष्णोति । तत् किमस्माकं स्थूलस्थिरस्तनभराणां माहात्म्यम् । को भावः । यथा उन्नतपयोधरभारं पश्यन् सन् ( ? ) तथा तव पुत्रो विषयान् सेवमानो बलहीनो भवति । कः करोति करिवधम् || २१४*५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org