________________
२१८ वनालग्गं
[ 31*431*4) पाइयकव्वुलावे पडिवयर्ण सकरण जो देह ।
सो कुसुमसत्यरं पत्थरेण दलिउं विणासह ॥४॥ 31*5) छंदेण विणा कव्वं लक्खणरहियम्मि सक्कयालावं ।
रूवं विणा मरहो तिणि वि सोहं न पावंति ॥५॥ 31*6) तं किं वुश्चइ कव्वं तेण करणावि विडिओ अप्पा ।
एक्कसुय व्व कुटुंबे हत्था हत्थे न जं भमइ ॥६॥ 31*7) अइचंपियं विणस्सइ दंतच्छेएण होइ विच्छायं ।
ढलहलयं चिय मुच्चइ पाइयकव्वं च पेम्मं च ॥७॥
संस्कृतकाव्यं येन निर्मितं सोऽपि दह्यतु । यतो वंशगृहे प्रदीप्ते सति, प्रज्वलिते सति त्रिटत् त्रिटत् त्राटकं (?) शब्दं करोति । एतावता संस्कृतकाव्यं न किमपि प्राकृतकवित्वाग्रतः ॥ ३१*३ ॥
31*4) [प्राकृतकाव्योल्लापे प्रतिवचनं संस्कृतेन यो ददाति । स कुसुमस्रस्तरं प्रस्तरेण दलित्वा विनाशयति ॥ ] यः पण्डितः प्राकृतकाव्योल्लापे सति प्रतिवचनं संस्कृतेन ददाति, स कुसुमस्रस्तरं कुसुमसंस्तारकं प्रस्तरेण दृषदा दलितुं भक्तुं ( ? दलित्वा भङ्क्त्वा ) विनाशयति ।।३१*४॥
31*5) [ छन्दसा विना काव्यं लक्षणराहित्ये संस्कृतालापः । रूपं विना गवस्त्रीण्यपि शोभां न प्राप्नुवन्ति ।। ] एते त्रयोऽपि शोभा न प्राप्नुवन्ति । एते के के । छन्दसा विना काव्यम् । लक्षणरहिते संस्कृतालापः । रूपं विना मरः ।। ३१ ५ ।।
____31*6) [ तत् किमुच्यते काव्यं तेन कृतेनापि विनटित आत्मा । एकसुत इव कुटुम्बे हस्ताद्धस्ते न यद् भ्रमति ।। ] तत् काव्यं किम् उच्यते । तेन कविनापि आत्मा विनटितो विडम्बितः । यस्य काव्यं हस्तास्तं न भ्रमति ।। ३१६ ॥ ___31*7) [ अतिनिपीडितं विनश्यति दन्तच्छेदेन भवति विच्छायम् । शिथिलं चैव मुच्यते प्राकृतकाव्यं च प्रेम च ॥ ] अतिचम्पितं विनश्यति। दन्तच्छेदेन विच्छायं भवति । अतः कारणात् प्राकृतकाव्यं च प्रेम स्नेहश्च हलहलं शिथिलमेव मुच्यते ॥ ३१७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org