________________
-१६०
वजालग्गं
[589. : ६१४.589) कुद्दालघायघणताडणेण पज्झरइ वसुह न हु चोज। सो उड्डो जस्स वि दसंणेण वडवा जलं देइ ॥४॥
६२. कण्हवज्जा [कृष्णपद्धतिः] 590) 'कुसलं राहे' 'सुहिओ सि कंस' कंसो कहि' 'कहिं राहा'।
इय बालियाइ भणिए विलक्खहसिरं हरिं नमह ॥१॥ 591) तं नमह जस्स गोट्टे मयणाणलतावियाउ गोवीओ।
पायडकंठग्गहमग्गिरीउ रिटं पसंसति ॥२॥
च्छलज्जलस्रोतसम् । यथा कश्चन कामुको लब्धसुखो निर्दयालिङ्गनबहुलोच्छलद्रेतसं नारी द्रवीभूतामपि पुनरालिङ्गति ।। ५८८ ॥
____589) [ कुद्दालघातघनताडनेन प्रक्षरति वसुधा न खल्वाश्चर्यम् । स "खनको यस्य दर्शनेन वडवा जलं ददाति ॥ ] वसुधा पृथ्वी कुद्दालघातघनताडनेन यत् प्रक्षरति, तन्न खल्वाश्चर्यकारि । स उड्डो यस्य दर्शनेनैव वडवा जलं ददाति । अयमर्थः । नारी द्वादशांगुलिप्रमाणलिंगदृढघातेन यत् प्रस्रवति तन्नाश्चर्यकारि । यस्य दर्शनेनैव द्रवति स कामुकः कुशलः ।। ५८९ ॥
590) [ 'कुशलं राधे' 'सुखितोऽसि कंस ' ' कंसः क्व ' 'क्व "राधा' । इति बालिकया भणिते विलक्षहसनशीलं हरिं नमत ।। ] कुशलं राधे, सुखितोऽसि कंस, कंसः क्वात्र, क्वात्र राधा । इति बालिकया भणिते विलक्षहसनशीलं हरिं नमत । अयमर्थः । कयाचन इति गोत्रस्खलिते हरिरुक्तिप्रत्युक्तिकया एवमुच्यते स्म । हरिः कांचन गोपबालिकां राधानाम्नालपति स्म । 'कुशलं राधे' । तर्हि सा क्रोधाविष्टा ' सुखितोऽसि कंस' इति हरि प्रत्यवादीत् । ततो भगवान् सचमत्कारं परावृत्य ' कंसः क्वात्र' इति पप्रच्छ । ततः सा, 'राधिकापि कात्र' इति प्रत्युत्तरमदादिति ॥५९०॥
591) [तं नमत यस्य गोष्ठे मदनानलतापिता गोप्यः । प्रकटकण्ठग्रहमार्गणशीला अरिष्टं प्रशंसन्ति ॥ ] तं नमत हरिं, यस्य हरेगोष्ठे -मदनानलतापिता गोप्योऽरिष्टं वृषभासुरं प्रशंसन्ति । यतः प्रकटकण्ठग्रहण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org