________________
१०६
वजालग्गं
[ 391 : ४०.१
391) दिट्ठी दिप्पिसरो पसरेण रई रईइ सब्भावो । सब्भावेण य नेहो पंच वि बाणा अणंगस्स ॥ २ ॥ 392) उवरि महं चिय वम्मह पंच वि बाणा निसंस रे मुक्का । अनं उण तरुणिजणं किं हणिहिसि चावलट्ठीए ॥ ३ ॥ 393) इच्छाणियत्तपसरो कामो कुलबालियाण किं कुणइ । सीहो व्व पंजरगओ अंग च्चिय झिज्जर बराओ ॥ ४ ॥ 394) ए कुसुमसरा तुह डज्झिहिंति मा भणसु मयण न हु भणियं ॥ पियविरहतावतविए मह हियए पक्खिवंतस्स ॥ ५ ॥
हृदये विध्याति, सरसानां प्रज्वलति । अग्नेस्तु स्त्रभावो, नीरसेषु काष्ठादिषु प्रज्वलति । सरसेषु च विध्याति । अस्य पुनः प्रतीपत्वम् । अत एवापूर्वी मन्मथाग्निः || ३९० ॥
391 ) [ दृष्टिर्दृष्टिप्रसरः प्रसरेण रती रत्या सद्भावः । सद्भावेन च स्नेहः पश्चापि बाणा अनङ्गस्य ] दृष्टिस्तदनु दृष्टिप्रसरः प्रसरेण रतिः, रत्या सद्भावः, सद्भावेन च स्नेहः, पञ्चापि बाणा अनङ्गस्य || ३९१ ॥
392 ) [ उपरि ममैव मन्मथ पञ्चापि बाणा नृशंस रे मुक्ताः । अन्यं पुनस्तरुणीजनं किं हनिष्यसि चापयष्टया ।। ] ममैवोपरि हे मन्मथ पश्चापि बाणा नृशंस घातक रे मुक्ताः । अन्यं तरुणीजनं किं चापयष्ट्या हनिष्यसि । अन्योऽपि यस्त्यक्तसर्वबाणो भवति, स धनुषैव युध्यते ।। ३९२|| 393) [ इच्छानिवृत्त प्रसरः कामः कुलबालिकानां किं करोति । सिंह इव पञ्जरगतोऽङ्ग एव क्षीयते वराकः ।। ] कामः कुलबालिकानां कुलपुत्रीणां किं करोति । सिंह इव पञ्जरस्थोऽङ्ग एव क्षीयते वराकः । किं विशिष्टोऽनङ्गः । इच्छानिवृत्तप्रसरः । कुलबालिकाः कामं हृदय एव मारयन्तीति भावः ॥ ३९३ ॥
394 ) [ हे कुसुमशरास्तव धक्ष्यन्ते मा भण मदन न खलु भणितम् । प्रिय विरहतापतप्ते मम हृदये प्रक्षिपतः ] रे मदन मा भणेति न खलु त्वया भणितम् । किमित्याह । तव कुसुमान्येव शरा धक्ष्यन्ते । किं कुर्वतस्तव । मम हृदये प्रक्षिपतः । किंविशिष्टे हृदये । प्रियविरहतापतप्ते ॥ ३९४ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org