________________
--297: ३२..]
नयणवजा 294) जत्तो विलोलपम्हलधवलाइ चलंति' नवर नयणाई।
आयण्णपूरियसरो तत्तो च्चिय धावइ अणंगो॥४॥ 295) कस्स न भिंदइ हिययं अणंगसरधोरणि व्व निवडंती।
षालाइ वलिय लोयणफुरंतमयणालसा दिट्ठी ॥५॥ 296) नयणाइ तुज्झ सुंदरि विसेण भरियाइ निरवसेसाई।
एमइ मारंति जणं अलज्जि किं कज्जलं देसि ॥६॥ 297) ईसिसिदिनकज्जलणीलुप्पलसच्छहेहि नयणेहिं ।
वग्महमत्ता बाला मइया इव भमइ उत्तहा ॥७॥ 294) [ यतो विलोलपक्ष्मलधवलानि चलन्ति केवलं नयनानि । आकर्णपूरितशरस्तत एव धावत्यनङ्गः ।।] यतो विलोलपक्ष्मलधवलानि चलन्ति केवलं नयनानि, तत्रैवाकर्णपूरितशरोऽनङ्गो धावति। तीक्ष्णप्रान्तानि दीर्घाणि धवलकृष्णानि नयनानि कामिनीनां दृष्ट्वानङ्गः कामिनः सकामान् करोति ।। २९४ ।।
__ 295) [ कस्य न भिनत्ति हृदयमनङ्गशरधोरणीव निपतन्ती । बालाया वलितलोचनस्फुरन्मदनालसा दृष्टिः ॥] कस्य न भिनत्ति हृदयमनङ्गशरराजिरिव निपतन्ती बालाया वलितलोचनस्फुरन्मदनालसा दृष्टिः । यत्र पुंसि बाला कटाक्षनिरीक्षणं करोति तस्य तामलभमानस्थ हृदयं द्विधेव भवति ।। २९५ ।।
296) [नयने तव सुन्दरि विषेण भृते निरवशेषे । एवमेव मारयतो जनमलज्जे किं कज्जलं ददासि ॥ ] हे सुन्दरि, तव नयने एवमेवान जिते
अपि जनं मारयतः । किंविशिष्टे । विषेण भृते निरवशेषे। हे अलज्जे • लज्जारहिते किं कज्जलं ददासि । निष्कज्जले अपि त्वदीये लोचने विषं भक्षितमिव पुरुषं मारयतः । इति कज्जलदानं पुनर्मुधैव ।। २९६ ।।
- 297) [ ईषदीषद्दत्तकज्जलनीलोत्पलप्तच्छायाभ्यां नयनाभ्याम् । मन्मथमत्ता बाला मृगीव भ्रमत्युत्तस्ता ।।] ईषदीषद्दत्तकज्जलाभ्यामत एव नीलोत्पलसदृक्षाभ्यां नयनाभ्यामुपलक्षिता बाला मन्मथमत्ता उत्तस्ता मृगीव भ्राम्यति ।। २९७॥
1 G वलति 2 G चलिय 3 C,G, I देहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org