________________
७०
वज्जालग
[258 : २८.२
258) हंसो मसाणमज्झे काओ जइ वसई पंकयवणम्मि | तह विह हंसो हंसो काओ काओ च्चिय वराओ ॥ २ ॥ 259 ) अहिणवघण उच्छलिया सवित्थरा' जइ वि पाउसवसेण । तह विहु किं सेविज्जइ वाहलिया रामहंसेहिं ॥ ३ ॥
260) बे वि सपक्खा तह बे वि धवलया वे वि सरवरणिवासाः ॥ तह विहु हंसबयाणं जाणिज्जइ अंतरं मरुयं ॥ ४ ॥ 261) नवणलिणमुणालुल्लोलमालियं हंस माणसं मोत्तुं ॥ लज्जाइ कह न मूओ सेवंतो गामवाद्दलियं ॥ ५ ॥
^^^^^^^^^
258) [ हंसः श्मशानमध्ये काको यदि वसति पङ्कजवने । तथापि खलु हंसो हंसः काकः काक एव वराकः ।। ] हंसः सितच्छदो यदि श्मशानमध्ये वसति, काकश्च पङ्कजवने, तथापि खल हंसो हंसः काकः काक एव वराकः ॥ २५८ ॥
259) [ अभिनवघनोच्छलिता सविस्तरा यद्यपि प्रावृड्वशेन । तथापि खलु किं सेव्यते क्षुद्रनदी राजहंसैः ॥ ] तथापि खलु किं क्षुद्रनदी हंसैः सेव्यते, यद्यप्येवंभूता संजाता । अभिनवघनोच्छलितात एव पउत्तरा चलद्बहुजला । केन । प्रावृड्वशेन ।। २५९ ॥
260) [ द्वावपि सपक्षौ तथा द्वावपि धवलौ द्वावपि सरोवर निवासी B तथापि खलु हंसबकयोर्ज्ञायतेऽन्तरं गुरुकम् ।। ] यद्यपि द्वावपि सपक्षौ, द्वावपि धवलौ द्वावपि सरोवर निवासौ, तथापि हंसबकयोमहदन्तरं ज्ञायत आकारदुरन्तत्वेनेति ॥ २६०॥
"
261) [ नवनलिनमृणालोल्लोलमालितं हंस मानसं मुक्त्वा । लज्जयर कथं न मृतः सेवमानो ग्रामक्षुद्रनदीम् ॥ ] हे हंस नवनलिनीमृणालोपलक्षिता उल्लोलास्तैर्मालितं मानसं सरो मुक्त्वा लज्जया कथं न मृतः । किं कुर्वाणः । सेवमानः । काम् । गामवाहलियं ग्रामजलनिर्गमनोद्भवनदीम् । इयं शृङ्गारे वर्तते । यथा कश्चन युवा कांचन विदग्धवनितां चलच्चमूरुचक्षुषमुपभुज्य निकृष्टां कामयमानः केनापि सख्यैवमुध्यते ।। २६१ ॥
1 B, C, G पउत्तरा ( पयउत्तरा )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org