________________
ફૂટ
वज्जालग्गं
251) 'ढंखरसेसो वि हु महुयरेहि मुक्को न मालईविडवो । दरवियसियकलियामोयबहलिमं संभरता है ॥ १६ ॥
[ 251 : २६.१६
252) निबिडदल संठियं पि हु कलियं वियसाविऊण सविसे : जे पढमं तीइ रसं पियंति ते छप्पया छेया ॥ १७ ॥
२७. सुरतरुविसेसवज्जा [ सुरतरुविशेषपद्धतिः ] 253) वसिऊण सग्गलोए गंधं गहिऊण पारिजायस्स । रे भसल किं न लज्जसि चुंबतो इयरकुसुमाई ॥ १ ॥
कारणमाह । प्रथमरसं संस्मरता ( संस्मरद्भि: ) । अयमर्थः यथा कश्चन युवातिक्रान्ततारुण्यामपि गुणगणयुक्तां नारीं प्रथमोपभुक्ता न त्यजति. ॥ २५० ॥
251) [ पत्रपुष्परहितशाखाशेषोऽपि खलु मधुकरैर्मुक्तो न मालतीविटप: । दर विकसितकलिकामोदबाहुल्यं संस्मरद्भिः ॥ ] मधुकरैर्मुक्तो न मालतीविटपः । किंविशिष्टोऽपि । पत्रपुष्पादिरहितोऽपि खलु । को हेतुरिति विशेषणद्वारेणाह । ईषद्विकसितकलिकामोदबाहुल्यं संस्मर द्भिः
।। २५१ ।।
252) [ निबिडदलसंस्थितामपि खलु कलिकां विकास्य सविशेषम् । थे प्रथमं तस्या रसं पिबन्ति ते षट्पदाश्छेकाः ॥ ] ये षट्पदा भ्रमरा निबिडदलसंस्थितामपि कलिकां विकास्य सविशेषं यथा स्यात्तथा, प्रथमं. तस्या मालत्या रसं पिबन्ति ते छेका विदग्धाः । इदमैदं पर्यम् । यथा कश्चन कामुकः कांचनानवतीर्णतारुण्यां कयाचन युक्त्या सुरतक्षमां विधाय तामुपभुङ्क्ते स निपुणो भवेदिति ॥ २५२ ।।
253 ) [ उषित्वा स्वर्गलोके गन्धं गृहीत्वा पारिजातस्य । रे भ्रमर किं न लज्जसे चुम्बन्नितरकुसुमानि || हे भ्रमर स्वर्गलोक उषित्वा गन्धं गृहीत्वा पारिजातस्य वृक्षस्य, इतरकुसुमानि चुम्बन्न लज्जसे । अयं भावः । प्रधानस्थान स्थितां निबिडकुचयुगलभरनग्यमानमध्यां मध्यवयसं नारीं रमित्वा, इदानीमितरनारीः कामयमानो न लज्जसे हे युवन्नित्युपालम्भोक्तिः || २५३ ॥
1 C ढेकर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org