________________
वज्जालग्गं
[ 176:१७.१५176) छिन्ने रणम्मि बहुपहुपसायमालापडिच्छिरे सीसे।
उत्तिण्णगरुयभारं व नच्चियं नरवरकबंधं ॥१५॥ 177) पक्खाणिलेण पहुणो विरमउ मुच्छ त्ति पासपडिएण ।
गिद्धंतकडणं दूसह पि साहिज्जइ भडेण ॥ १६॥ 178) वच्छत्थलं च सुहडस्स रुहिरकुंकुमविलित्तयंगस्स ।
घरकामिणि व्व चुंबइ उरे निसन्ना सिवा वयणं ॥ १७ ॥
जानानः स्वामी हृष्टहृदयः कृतः । कृतयुद्धः सन् मृतः स्वर्गे जीवं स्थापयामास ! निःशङ्कयुद्धोत्थितकीर्तिप्रसरेण जगद् धवलयामास । मृतः सन् पतितशिरसा महीमानर्च । इति कृतकार्यों निष्कबन्धः सुभटो ननर्त । सुभटसहस्रमरणे रणे सुभटो नृत्यतीति बहुश्रुताः कथयन्ति । प्रायः सहस्र-- नाशे समरमुखे नृत्यति कबन्धः ॥ १७५ ॥
176) [छिन्ने रणे बहुप्रभुप्रसादमालाग्राहिणि शीर्षे । उत्तीर्णगुरुकभार मिव नर्तितं नरवरकबन्धम् ॥ ] नरवरकबन्ध नर्तितम् । उत्प्रेक्षते । उत्तीर्णगुरुकभारमिव । कथं ज्ञायते । रणे शीर्षे छिन्ने सति। किंविशिष्टे. शीर्षे । बहुप्रभुप्रसादमालाप्रतीक्षणशीले । अयं भावः। अनवरतप्राप्तस्वामिप्रसादवृन्दाप्यायितशरीरः सकलमेव कालं युद्धमेव वाञ्छते। ततश्च प्राप्तयुद्धः केन प्रकारेण स्वामिप्रसादानृण्यं यास्यामीति धिया विचिन्त्य तावद्युयुधे युधि, यावच्छिरो निपपात। ततश्च दत्तस्वामिप्रसाद उत्तीर्णशिरोभारः सन् ननर्तेव ॥१७६॥
177 [पक्षानिलेन प्रभोविरमतु मूछेति पार्श्वपतितेन । गृध्रान्त्रकर्षणं दुःसहमपि सह्यते भटेन ॥] भटेन गृधैरन्त्राकर्षणं दुःसहमपि सह्यते । किंविशिष्टेन'। स्वस्वामिपार्श्वपतितेन | किमिति जीवता सामर्थ्यवतापि सह्यत इत्याह । इति कथम् । प्रभोमूर्छा एतत्पक्षानिलेन विरमत्विति। एतेन स्वामिभक्तत्वं कोलीन्यं च दर्शितम् ।। १७७ ।।
178) [वक्षःस्थलं च सुभटस्य रुधिरकुंकुमविलिप्ताङ्गस्य । वरकामिनीव चुम्बत्युरसि निषण्णा शिवा वदनम् ॥] शिवा शृगाली:
1 J reads here and elsewhere किंभूत or कथंभूत for किंविशिष्ट.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org