SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ---137: १३.५] . दीणवजा 134) ता रूवं ताव गुणा लज्जा सच्चं कुलक्कमो ताव । ताव च्चिय अहिमाणो देहि त्ति न भण्णए जाव ॥२॥ 135) तिणतूला वि हु लहुयं दीणं दइवेण निम्मिय भुवणे । वारण किं न नीयं अप्पाणं पत्थणभएण ॥३॥ 136) थरथरथरेइ हिययं जीहा घोलेइ कंठमज्झम्मि । नासइ मुहलावण्णं देहि त्ति परं भणंतस्स ॥४॥ 137) किसिणिज्जति लयंता उयहिजलं जलहरा पयत्तेण । धवलीहुँति हु देता देतलयंतंतरं पेच्छ ॥५॥ ___134) [ तावद्रूपं तावद्गुणा लज्जा सत्यं कुलक्रमस्तावत् । तावदेवाभिमानो देहीति न भण्यते यावत् ।।] तावद्रपं तावद्गुणास्तावल्लज्जा -सत्यं कुलक्रमस्तावत् । तावदेवाभिमानः। तावत् कथम् । यावद्देहीति न भण्यते पुरुषेण ।। १३४ ।। ___135) तृणतूलादपि खलु लघुर्दीनो दैवेन निर्मितो भुवने। वातेन किं न नीत आत्मानं प्रार्थनभयेन ।। ] तृणकर्पासादेरपि लघुर्दीनो याचको दैवेन निर्मितः। तृणतूलवद् यद् वातेन न नीयते, तत्र को हेतुः । आत्मनः प्रार्थनाभयेन । अयं याचको मामपि याचिष्यते नीतः सन्निति न नीयते . । १३५ ।। ___136) [ कम्पते हृदयं जिह्वा धूर्णते कण्ठमध्ये। नश्यति मुखलावण्यं देहीति परं भणतः ॥ ] परमन्यं देहीति भणतो याचकस्य थरथरायते कम्पते हृदयं, जिह्वा कण्ठमध्य इतततश्चलति, नश्यति मुखलावण्यम् ।। १३६ ॥ _137) [ कृष्णीभवन्ति गृह्णन्त उदधिजलं जलधराः प्रयत्नेन । धवलीभवन्ति खल ददतो ददद्गृह्णदन्तरं प्रेक्षस्व ।। ] ददल्लादन्तरं पश्य ददतो लातो गृह्णतश्चान्तरम् । तदेव दर्शयति । उदधिजलं लान्तो गृह्णन्तो जलंधराः कृष्णीभवन्ति खलु । तदेव ददतो वर्षन्तो धवलीभवन्ति । सजला: कृष्णा निर्जला धवला घना भवन्तीति स्वभावः ।। १३७ ।। .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy