________________
३५
-129 : १२.४]
विहिवजा
१२. विहिवजा [विधिपद्धतिः] 126) खंडिजइ विहिणा ससहरो वि सूरस्स होइ अस्थमणं ।
हा दिव्वपरिणईए कवलिज्जइ को न कालेणं ॥१॥ 127) को एत्थ सया सुहिओ कस्स व लच्छी विराइ पेम्माई।
कस्स व न होइ खलणं भण को हुन खंडिओ विहिणा ॥२॥ 128) उन्नय नीया नीया वि उन्नया हुंति तक्खण च्चेव ।
विहिपरिणामियकज्ज हरिहरबम्हा न याति ॥३॥ 129) विहिणा जं चिय लिहियं नलाडवट्टीइ तेण दइवेण ।
पच्छा सो वि पसन्नो अन्नह करिउ न हु समत्थो॥४॥
126) [खण्डयते विधिना शशधरोऽपि सूर्यस्य भवत्यस्तमनम् । हा दैवपरिणत्या कवली क्रियते को न कालेन ॥ ] विधिना पुराकृतकर्मणा शशधरोऽपि खण्ड्यते, सूर्यस्य भवत्यस्तमनम् । हा खेदे । दैवपरिणत्या को न कालेन कवलीक्रियते। आस्तां तावन्मनुष्यादिः। यत्र सर्वकार्यसमर्थयो"दिन निशाकरयोरेवंविधो भवति विवर्तस्तत्र का कथा पुरुषादेः ।। १२६ ।। - 127) [ कोऽत्र सदा सुखितः कस्य वा लक्ष्मीः स्थिराणि प्रेमाणि । कस्य वा न भवति स्खलनं भण कः खलु न खण्डितो विधिना ॥] कोऽत्र जगति सदा सुखितः । कस्य लक्ष्मीः स्थिरा, कस्य प्रेमाणि स्थिराणि । कस्य वा स्खलनं न भवति । भण कः खलु विधिना न खण्डितः।।१२७॥
128) [ उन्नता नीचा नीचा अप्युन्नता भवन्ति तत्क्षणादेव । विधिपरिणामितकार्य हरिहरब्रह्माणो न जानन्ति ॥] उन्नता ये नीचा भवन्ति ते तत्क्षणादेव, नीचाश्चोन्नताः। विधिपरिणामितकार्य हरिहरब्रह्माणोऽपि न जानन्ति ।। १२८॥
129) [ विधिना यदेव लिखितं ललाटपट्टे तेन दैवेन । पश्चात्सोऽपि प्रसन्नोऽन्यथा कर्तुं न खलु समर्थः ॥] तेन दैवेन विधिना ललाटपट्ट्यां यल्लिखितं पश्चात्सोऽपि कथमप्याराधनेन प्रसन्नः सन् , अन्यथाकर्तुं न समर्थस्तल्लिखितम् ।। १२९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org