________________
समर्पणम्
.
श्रीवत्सगोत्रभुवि विप्रकुले प्रसूतं
श्रीविश्वनाथतनुजं विदुषां वरेण्यम् । आचार्यमार्यतिलकं वनमालिनं तं
वन्दे सदा सुकृतिनं मम तातपादम् ॥ साहित्ये सांख्ययोगेऽप्यथ नयबहुले धर्मशास्त्रे च योऽसा_____ वाचार्योपाधिधारी विमलगुणगणैर्योतितस्वान्तरात्मा । येनाप्यध्यापितोऽहं सततजडमतिः पुण्यगीर्वाणवाणी
तस्याराध्ये पदाब्जे सुकविकृतिमिमामर्पये नव्यरूपाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org