________________
कथाकोशप्रशस्तिः
[ ५३६
विद्वान् समस्त शास्त्रार्थविचारचतुराननः । शिरश्चन्द्रकराकारकीर्तिव्याप्तजगत्त्रयः ॥१३॥ व्याख्यातृत्वकवित्वादिगुणहंसकमानसः । सर्वजशासनाकाशशरत्पार्वणचन्द्रमाः ॥१४॥ गांगेयभोजदेवादिसमस्तनपपुङ्गवः । पूजितोत्कृष्टपादारविन्दो विध्वस्तकल्मषः ॥१५॥ भव्यपनाकरानन्दी सहस्त्रांशुरिवापरः । ततो गुणाकरः कीर्तिसहस्त्रोपपदो s जनि ॥१६॥ कर्पूरपूरोज्वलचारुकीतिः सर्वोपकारोद्यतचित्तवृत्तः । शिष्यः समाराधितवीरचन्द्रः तस्य प्रसिद्धो भुवि वीरचन्द्रः ॥१७॥ सूरिश्चारित्रसूर्यस्य तस्य तत्वार्थवेदिनः । विवेकवसतिविद्वान् शिष्यः श्रीचन्द्रो ऽभवत् ॥१८॥ भव्यप्रार्थनया ज्ञात्वा पूर्वाचार्यकृतां कृतिम् । तेनायं रचितः सम्यक् कथाकोशोऽतिसुन्दरः ॥१९॥ यवत्र स्खलितं किंचित्प्रमादवशतो मम । तत् क्षमन्तु क्षमाशीला: सुधियः शोधयन्तु च ॥२०॥ यावन्महीमरुन्मा मरुतो मन्दरोरगाः । परमेष्ठीपावनो धर्मः परमार्थपरमागमः ॥२१॥ यावत्सुराः सुराधीशः स्वर्गचन्द्रार्कतारकाः । तावत्काव्यमिदं स्थेयात् श्रीचन्द्रोज्वलकीतिमत् ॥२२॥
॥ इति श्री कथाकोशः संपूर्णः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org