SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । अमोऽकम्यमि-चमः ।४।२।२६॥ कम्यमि-चमिवर्जस्याऽमन्तस्य णौ ह्रस्व: स्यात्, भिणम्परे तु वा दीर्घः । रमयति ; अरामि, अरमि ; रामं रामम्, रमं रमम् । अकम्यमिचम इति किम् ? कामयते, अकामि, कामं कामम् ; आमयति, आचामयति ।।१९।। छदेरिस्-मन्-त्रट-कौ ।४।२।३३॥ छदेरिस्-मन्-त्रट-किप्परे णौ ह्रस्व: स्यात् । छदिः, छद्म, छत्री, उपच्छत् ॥२०॥ एकोपसर्गस्य च घे।४।२॥३४॥ एकोपसर्गस्यानुपसर्गस्य च छदेर्घपरे णौ ह्रस्व: स्यात् । प्रच्छदः, छदः । एकोपसर्गस्य चेति किम् ? समुपच्छाद: ।।२१।। उपान्त्यस्याऽसमानलोपि-शास्वृदितो ।।४।२॥३५॥ समानलोपि-शास्वृदिद्वर्जस्य धातोरुपान्त्यस्य ङपरे णौ ह्रस्व: स्यात् । अपीपचत्, मा भवान् अटिटत् । असमानलोपि-शास्वृदित इति किम् ? अत्यरराजत्, अशशासत्, मा भवान् ओणिणत् ।।२२।। __ जिघ्रतेरिः ।४।२।३८॥ घ्र उपान्त्यस्य ङपरे णौ इर्वा स्यात् । अजिघ्रिपत्, अजिघ्रपत् । उत्तरस्मात् पृथक् करणादत्र विकल्प: ।।२३।। . तिष्ठतेः ।४॥२॥३९॥ स्थ उपान्त्यस्य ङपरे णौ इ: स्यात् । अतिष्ठिपत् ।।२४।। ऊद् दुषो णौ।४।२॥४०॥ दुषेरुपान्त्यस्य णौ ऊत् स्यात् । दूषयति ।।२५।। चित्ते वा ।४॥४१॥ चित्तकर्तृकस्य दुषेरुपान्त्यस्य णौ परे ऊद् वा स्यात् । मनो दूषयति, मनो दोषयति मैत्र: ।।२६।। गोहः स्वरे ।४।२।४२॥ कृतगुणस्य गुहे: स्वरादावुपान्त्यस्योत् स्यात् । निगृहति । गोह इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy