________________
२
सर्वसिद्धान्तप्रवेशकः धर्मा-ऽधर्म-संस्कार-सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभागाश्चतुर्दश गुणाः ॥
मनस्त्वाभिसम्बन्धाद् मनः । तच्च क्रमज्ञानोत्पत्तिलिङ्ग सङ्ख्यापरिमाण-पृथक्त्व-संयोग-विभाग-परत्वाऽ-परत्व-वेगैरष्टभिर्गुणैर्गुणवत् । इति द्रव्यपदार्थः ॥
__ अथ गुणाः- रूप-रस-गन्ध-स्पर्शा विशेषगुणाः, सङ्ख्या परिमाणानि पृथक्त्वं संयोग-विभागौ परत्वा-ऽपरत्वे इत्येते सामान्यगुणाः, बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्मा-ऽधर्म-संस्कारा आत्मगुणाः, गुरुत्वं पृथिव्युदकयोः, द्रवत्वं पृथिव्युदकाग्निषु, स्नेहोऽम्भस्येव,
१. “त्पत्तिलिङ्गं मनः संख्या BI "प्राणा-ऽपान-निमेषोन्मेष-जीवनमनोगतिरिन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्चेत्यात्मलिङ्गानि'"-वै० सू० ३।२।४। “आत्मलिङ्गाधिकारे बुद्ध्यादयः प्रयत्नान्ताः सिद्धाः"-प्र० भा० पृ० ३४ । “आत्मलिङ्गेति । प्राणादिसूत्रे बुद्धिः कण्ठरवेण नोक्ता इति चेत्, सूत्रेण विनास्याः प्रत्येयत्वात्, देवदत्तबुद्ध्या विष्णुमित्रस्येच्छाद्यदर्शनेनाऽऽत्मनीच्छादिकथनेन जनकतया तत्समानाधिकरणबुद्धेः सूचितत्वात् ।"-प्र० भा० सेतु० पृ० ३८९ ॥ २. परत्वा-ऽपरत्वैः सप्तभिर्गुणैः A । तुलना-"तस्य गुणाः संख्या-परिमाणपृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्व-संस्काराः ।"-प्र० भा० पृ० ३६ । "संस्कारश्च मूर्तत्वादेव वेगाख्यः ॥"- प्र० भा० व्योमवती पृ० ४२७ । संख्या-परिणाम-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्व-संस्काराः मन:समवेताः ॥१५४ ॥-सप्तपदार्थी [शिवादित्यरचिता] ॥ ३. रूप-रस-गन्ध-स्पर्श-स्नेहसांसिद्धिकद्रवत्व-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्मा-ऽधर्म-भावना-शब्दा वैशेषिकगुणाः"-प्र० भा० पृ० ३९ । “रूप-स्पर्श-गन्ध-रस-स्नेहाः सांसिद्धिको द्रवः । बुद्धयादिनवशब्दाश्च वैशेषिकगुणाः स्मृताः ॥' इति प्राच्यैः परिभाषितत्वात्'-प्र० भा० सूक्ति पृ० १६३ ।- इत्यादयः प्रशस्तपादभाष्यानुसारिवैशेषिकग्रन्थेषु बहव उल्लेखा दृश्यन्ते । वैशेषिकदर्शनसूत्रेषु तु नैतद्विषयकः कश्चनापि उल्लेखः । अतोऽत्र ग्रन्थकृता रूप-रस--गन्ध-स्पर्शानां चतुर्णामेव यद् विशेषगुणत्वं वर्णितं तत् प्रशस्तपादभाष्यपरम्परातो विभिन्नामन्यामेव काञ्चिदपि परम्परामाश्रित्य कृतं भवेदिति सम्भाव्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org