________________
नैयायिकदर्शनम्
संशय - तर्काभ्यामूर्ध्वं निश्चितः प्रत्ययो निर्णयः ॥
तिस्रः कथाः- - वादो जल्पो वितण्डा । तत्र शिष्या - ऽऽचार्ययोः पक्षप्रतिपक्षपरिग्रहेण अभ्यासख्यापनाय वादकथा ॥
विजिगीषुणा सार्द्ध " छल- जाति - निग्रहस्थानसाधनोपालम्भो जल्प: " [ न्या० सू० १ २ २] ॥
स्वपक्षस्थापनाहीनो वितण्डा ॥ अनैकान्तिकादयो हेत्वाभासाः ॥ नवकम्बलो देवदत्त इत्यादिच्छलम् ॥ दूषणाभासास्तु जातयः ॥
निग्रहस्थानानि पराजयवस्तूनि । तद्यथा - "प्रतिज्ञाहानिः, प्रतिज्ञान्तरम्, प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यासः हेत्वन्तरम् अर्थान्तरम्, निरर्थकम्, अविज्ञातार्थम्, अपार्थकम्, अप्राप्तकालम्, न्यूनम्, अधिकम्, पुनरुक्तम्, अननुभाषणम्, अप्रतिज्ञानम्, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणम्, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासाश्चेति निग्रहस्थानानि" [न्या० सू० ५|२|१] ॥
इति नैयायिर्कदर्शनं समाप्तम् ॥
[ वैशेषिकदर्शनम् ]
अथ वैशेषिकतन्त्रसमासप्रतिपादनायाह- द्रव्य-गुण-कर्म-सामान्यविशेष - समवायानां तत्त्वज्ञानान्निः श्रेयसाधिगमः । तत्र नव द्रव्याणि
प्रत्ययः 'एवमिदम्' इति निर्णयः । अयं तु संशयात् प्रच्युतः कारणोपपत्तिसामर्थ्यात्......निर्णयं चाप्राप्तो विशेषादर्शनात् । " - न्यायवार्तिक पृ० ३२७ ।।
१. पलम्भो A ॥ २. अनेकान्तादयो B ॥ ३. दत्तादिच्छ° B ॥ ४. °र्थकम् A ॥ ५. कथाविक्षेप: A ॥ ६. योगोपे' A ॥ ७. योगानु' A I ८. सचेति B ॥ ९ इति A नास्ति ।। १०. 'कमतं स° A
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org